१३.६७.१युधिष्ठिर उवाच
१३.६७.२तिलानां कीदृशं दानमथ दीपस्य चैव ह
अन्नानां वाससां चैव भूय एव ब्रवीहि मे
१३.६७.३भीष्म उवाच
१३.६७.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर
१३.६७.५मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः
१३.६७.६पर्णशालेति विख्यातो रमणीयो नराधिप
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा
१३.६७.७अथ प्राह यमः कंचित्पुरुषं कृष्णवाससम्
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम्
१३.६७.८गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम्
१३.६७.९शमे निविष्टं विद्वांसमध्यापकमनादृतम्
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः
१३.६७.१०स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना
अपत्येषु तथा वृत्ते समस्तेनैव धीमता
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे
१३.६७.११स गत्वा प्रतिकूलं तच्चकार यमशासनम्
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः
१३.६७.१२तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान्
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति
१३.६७.१३एवमुक्ते तु वचने धर्मराजेन स द्विजः
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत
१३.६७.१४यम उवाच
१३.६७.१५नाहं कालस्य विहितं प्राप्नोमीह कथंचन
यो हि धर्मं चरति वै तं तु जानामि केवलम्
१३.६७.१६गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते
ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत
१३.६७.१७ब्राह्मण उवाच
१३.६७.१८यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम
१३.६७.१९यम उवाच
१३.६७.२०शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम्
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम्
१३.६७.२१तिलाश्च संप्रदातव्या यथाशक्ति द्विजर्षभ
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत
१३.६७.२२तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम्
तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा
१३.६७.२३तिला भक्षयितव्याश्च सदा त्वालभनं च तैः
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे
१३.६७.२४तथापः सर्वदा देयाः पेयाश्चैव न संशयः
पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत्
१३.६७.२५एतत्सुदुर्लभतरमिह लोके द्विजोत्तम
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम्
१३.६७.२६प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम
भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः
१३.६७.२७इत्युक्ते स तदा तेन यमदूतेन वै गृहान्
नीतश्चकार च तथा सर्वं तद्यमशासनम्
१३.६७.२८नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा
ययौ स धर्मराजाय न्यवेदयत चापि तम्
१३.६७.२९तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान्
कृत्वा च संविदं तेन विससर्ज यथागतम्
१३.६७.३०तस्यापि च यमः सर्वमुपदेशं चकार ह
प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत्
१३.६७.३१तथा प्रशंसते दीपान्यमः पितृहितेप्सया
तस्माद्दीपप्रदो नित्यं संतारयति वै पितॄन्
१३.६७.३२दातव्याः सततं दीपास्तस्माद्भरतसत्तम
देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो
१३.६७.३३रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप
तानि विक्रीय यजते ब्राह्मणो ह्यभयंकरः
१३.६७.३४यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च
१३.६७.३५यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम्
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित्
१३.६७.३६वाससां तु प्रदानेन स्वदारनिरतो नरः
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम
१३.६७.३७गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात्
१३.६७.३८विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते