१३.६८.१युधिष्ठिर उवाच
१३.६८.२भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम्
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः
१३.६८.३पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति
१३.६८.४सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः
वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि
१३.६८.५भीष्म उवाच
१३.६८.६तुल्यनामानि देयानि त्रीणि तुल्यफलानि च
सर्वकामफलानीह गावः पृथ्वी सरस्वती
१३.६८.७यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम्
पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते
१३.६८.८तथैव गाः प्रशंसन्ति न च देयं ततः परम्
संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः
१३.६८.९वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि
१३.६८.१०प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्
पूर्वमेवाक्षरं नान्यदभिधेयं कथंचन
१३.६८.११प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम्
१३.६८.१२पितृसद्मानि सततं देवतायतनानि च
पूयन्ते शकृता यासां पूतं किमधिकं ततः
१३.६८.१३ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम्
१३.६८.१४स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति
नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति
१३.६८.१५युधिष्ठिर उवाच
१३.६८.१६देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत्
कीदृशाय प्रदातव्या न देयाः कीदृशाय च
१३.६८.१७भीष्म उवाच
१३.६८.१८असद्वृत्ताय पापाय लुब्धायानृतवादिने
हव्यकव्यव्यपेताय न देया गौः कथंचन
१३.६८.१९भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान्
१३.६८.२०यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत्
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः
१३.६८.२१यश्चैनमुत्पादयति यश्चैनं त्रायते भयात्
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः
१३.६८.२२कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः
१३.६८.२३वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य
शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश्च
१३.६८.२४यः क्षुद्भयाद्वै न विकर्म कुर्या;न्मृदुर्दान्तश्चातिथेयश्च नित्यम्
वृत्तिं विप्रायातिसृजेत तस्मै; यस्तुल्यशीलश्च सपुत्रदारः
१३.६८.२५शुभे पात्रे ये गुणा गोप्रदाने; तावान्दोषो ब्राह्मणस्वापहारे
सर्वावस्थं ब्राह्मणस्वापहारो; दाराश्चैषां दूरतो वर्जनीयाः