१३. अनुशासनपर्व
१३.७६.१वैशंपायन उवाच

१३.७६.२ततो युधिष्ठिरो राजा भूयः शांतनवं नृप
गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः

१३.७६.३युधिष्ठिर उवाच

१३.७६.४गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम्

१३.७६.५इत्युक्तो धर्मराजेन तदा शांतनवो नृप
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान्

१३.७६.६भीष्म उवाच

१३.७६.७वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम्
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते

१३.७६.८असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति
पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम्

१३.७६.९जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम्
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत्

१३.७६.१०दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश्च मूल्यैरदत्तैः
क्लेशैर्विप्रं योऽफलैः संयुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः

१३.७६.११बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः
यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा

१३.७६.१२युधिष्ठिर उवाच

१३.७६.१३कस्मात्समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम्
विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम्

१३.७६.१४भीष्म उवाच

१३.७६.१५वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा

१३.७६.१६प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा
असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया

१३.७६.१७यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो

१३.७६.१८अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः
ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः

१३.७६.१९यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः
सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः

१३.७६.२०एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत्

१३.७६.२१इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा

१३.७६.२२स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन्
ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम्

१३.७६.२३सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः

१३.७६.२४तासाममृतवर्णानां क्षरन्तीनां समन्ततः
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः

१३.७६.२५स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः
शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः
ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव

१३.७६.२६तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते
नानावर्णत्वमनयन्मेघानिव दिवाकरः

१३.७६.२७यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः
यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम्

१३.७६.२८अथ क्रुद्धं महादेवं प्रजापतिरभाषत
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम्

१३.७६.२९यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः

१३.७६.३०न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः
नामृतेनामृतं पीतं वत्सपीता न वत्सला

१३.७६.३१इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च
आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम्

१३.७६.३२वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः
प्रसादयामास मनस्तेन रुद्रस्य भारत

१३.७६.३३प्रीतश्चापि महादेवश्चकार वृषभं तदा
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः

१३.७६.३४ततो देवैर्महादेवस्तदा पशुपतिः कृतः
ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते

१३.७६.३५एवमव्यग्रवर्णानां कपिलानां महौजसाम्
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः

१३.७६.३६लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः
सौम्याः पुण्याः कामदाः प्राणदाश्च; गा वै दत्त्वा सर्वकामप्रदः स्यात्

१३.७६.३७इमं गवां प्रभवविधानमुत्तमं; पठन्सदा शुचिरतिमङ्गलप्रियः
विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान्पशुधनमाप्नुयात्तथा

१३.७६.३८हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम्
एतान्सर्वान्गोप्रदाने गुणान्वै; दाता राजन्नाप्नुयाद्वै सदैव

१३.७६.३९वैशंपायन उवाच

१३.७६.४०पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिराजमीढः
सौवर्णकांस्योपदुहास्ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः

१३.७६.४१तथैव तेभ्योऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव
यज्ञान्समुद्दिश्य च दक्षिणार्थे; लोकान्विजेतुं परमां च कीर्तिम्