१३.८२.१भीष्म उवाच
१३.८२.२ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च ये
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर
१३.८२.३ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते
तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते
१३.८२.४दानानामपि सर्वेषां गवां दानं प्रशस्यते
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम्
१३.८२.५पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह
पयो दधि घृतं यासां सर्वपापप्रमोचनम्
१३.८२.६गावस्तेजः परं प्रोक्तमिह लोके परत्र च
न गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ
१३.८२.७अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर
१३.८२.८पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः
१३.८२.९अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा
पर्युपासन्त कौरव्य कदाचिद्वै पितामहम्
१३.८२.१०नारदः पर्वतश्चैव विश्वावसुहहाहुहू
दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम्
१३.८२.११तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा
आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक्
१३.८२.१२तस्मिन्देवसमावाये सर्वभूतसमागमे
दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च
१३.८२.१३देवानां भगवन्कस्माल्लोकेशानां पितामह
उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम्
१३.८२.१४किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम्
१३.८२.१५ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम्
अवज्ञातास्त्वया नित्यं गावो बलनिसूदन
१३.८२.१६तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ
१३.८२.१७यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव
एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन
१३.८२.१८धारयन्ति प्रजाश्चैव पयसा हविषा तथा
एतासां तनयाश्चापि कृषियोगमुपासते
१३.८२.१९जनयन्ति च धान्यानि बीजानि विविधानि च
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः
१३.८२.२०पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप
वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः
१३.८२.२१मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा
वासवाकूटवाहिन्यः कर्मणा सुकृतेन च
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि
१३.८२.२२एतत्ते कारणं शक्र निवासकृतमद्य वै
गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो
१३.८२.२३एता हि वरदत्ताश्च वरदाश्चैव वासव
सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः
१३.८२.२४यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम
तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन
१३.८२.२५पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु
त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते
१३.८२.२६अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम्
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा
१३.८२.२७तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः
१३.८२.२८अतप्यत तपो घोरं हृष्टा धर्मपरायणा
कैलासशिखरे रम्ये देवगन्धर्वसेविते
१३.८२.२९व्यतिष्ठदेकपादेन परमं योगमास्थिता
दश वर्षसहस्राणि दश वर्षशतानि च
१३.८२.३०संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः
तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम्
१३.८२.३१अथाहमब्रुवं तत्र देवीं तां तपसान्विताम्
किमर्थं तप्यते देवि तपो घोरमनिन्दिते
१३.८२.३२प्रीतस्तेऽहं महाभागे तपसानेन शोभने
वरयस्व वरं देवि दातास्मीति पुरंदर
१३.८२.३३सुरभ्युवाच
१३.८२.३४वरेण भगवन्मह्यं कृतं लोकपितामह
एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ
१३.८२.३५ब्रह्मोवाच
१३.८२.३६तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर
प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते
१३.८२.३७अलोभकाम्यया देवि तपसा च शुभेन ते
प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते
१३.८२.३८त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि
मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति
१३.८२.३९मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव
निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते
१३.८२.४०मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः
यच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे
१३.८२.४१तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः
न तत्र क्रमते मृत्युर्न जरा न च पावकः
न दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव
१३.८२.४२तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च
विमानानि च युक्तानि कामगानि च वासव
१३.८२.४३व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्
तपसा महता चैव सुकृतेन च कर्मणा
शक्यः समासादयितुं गोलोकः पुष्करेक्षण
१३.८२.४४एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते
न ते परिभवः कार्यो गवामरिनिसूदन
१३.८२.४५भीष्म उवाच
१३.८२.४६एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर
१३.८२.४७एतत्ते सर्वमाख्यातं पावनं च महाद्युते
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम्
कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम्
१३.८२.४८य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति
१३.८२.४९गोषु भक्तश्च लभते यद्यदिच्छति मानवः
स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः
१३.८२.५०पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात्
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात्
१३.८२.५१विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम्
न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत