१३. अनुशासनपर्व
१३.८३.१युधिष्ठिर उवाच

१३.८३.२उक्तं पितामहेनेदं गवां दानमनुत्तमम्
विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम्

१३.८३.३राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः
परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः

१३.८३.४पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुंधराम्
पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन

१३.८३.५एवमेव गवामुक्तं प्रदानं ते नृगेण ह
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम्

१३.८३.६वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा
सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम्

१३.८३.७तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम्

१३.८३.८किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम्
किं दानं किं फलं चैव कस्माच्च परमुच्यते

१३.८३.९कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते

१३.८३.१०कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह

१३.८३.११भीष्म उवाच

१३.८३.१२शृणु राजन्नवहितो बहुकारणविस्तरम्
जातरूपसमुत्पत्तिमनुभूतं च यन्मया

१३.८३.१३पिता मम महातेजाः शंतनुर्निधनं गतः
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम्

१३.८३.१४तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम्
माता मे जाह्नवी चैव साहाय्यमकरोत्तदा

१३.८३.१५ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन्
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम्

१३.८३.१६तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः
दातुं निर्वपणं सम्यग्यथावदहमारभम्

१३.८३.१७ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते

१३.८३.१८तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम्
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ

१३.८३.१९ततो मे पुनरेवासीत्संज्ञा संचिन्त्य शास्त्रतः
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो
पिण्डो देयो नरेणेह ततो मतिरभून्मम

१३.८३.२०साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित्
गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति

१३.८३.२१ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम्
शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन्

१३.८३.२२ततो दर्भेषु तत्सर्वमददं भरतर्षभ
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ

१३.८३.२३ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा

१३.८३.२४प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः

१३.८३.२५त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव
आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः

१३.८३.२६साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः
प्रमाणमुपनीता वै स्थितिश्च न विचालिता

१३.८३.२७तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ
किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति

१३.८३.२८एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः
पाविता वै भविष्यन्ति पावनं परमं हि तत्

१३.८३.२९दश पूर्वान्दश परांस्तथा संतारयन्ति ते
सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन्

१३.८३.३०ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते
सुवर्णदानेऽकरवं मतिं भरतसत्तम

१३.८३.३१इतिहासमिमं चापि शृणु राजन्पुरातनम्
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च

१३.८३.३२जामदग्न्येन रामेण तीव्ररोषान्वितेन वै
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा

१३.८३.३३ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम्

१३.८३.३४वाजिमेधं महाराज सर्वकामसमन्वितम्
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम्

१३.८३.३५विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै
नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत

१३.८३.३६स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता
पप्रच्छागमसंपन्नानृषीन्देवांश्च भार्गवः

१३.८३.३७पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम्
तदुच्यतां महाभागा इति जातघृणोऽब्रवीत्

१३.८३.३८वसिष्ठ उवाच

१३.८३.३९देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम्

१३.८३.४०तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः

१३.८३.४१भूय एव च माहात्म्यं सुवर्णस्य निबोध मे
गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर

१३.८३.४२मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन
प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै

१३.८३.४३शूलपाणेर्भगवतो रुद्रस्य च महात्मनः
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह

१३.८३.४४देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन
समागमे भगवतो देव्या सह महात्मनः
ततः सर्वे समुद्विग्ना भगवन्तमुपागमन्

१३.८३.४५ते महादेवमासीनं देवीं च वरदामुमाम्
प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह

१३.८३.४६अयं समागमो देव देव्या सह तवानघ
तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः
अमोघतेजास्त्वं देव देवी चेयमुमा तथा

१३.८३.४७अपत्यं युवयोर्देव बलवद्भविता प्रभो
तन्नूनं त्रिषु लोकेषु न किंचिच्छेषयिष्यति

१३.८३.४८तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया
अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम्

१३.८३.४९इति तेषां कथयतां भगवान्गोवृषध्वजः
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत

१३.८३.५०इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः
ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः

१३.८३.५१रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः

१३.८३.५२यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः
तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ

१३.८३.५३प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति

१३.८३.५४पावकस्तु न तत्रासीच्छापकाले भृगूद्वह
देवा देव्यास्तथा शापादनपत्यास्तदाभवन्

१३.८३.५५रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा
प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि

१३.८३.५६तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम्
तेजस्तेजसि संपृक्तमेकयोनित्वमागतम्

१३.८३.५७एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः
असुरस्तारको नाम तेन संतापिता भृशम्

१३.८३.५८आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि
साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात्

१३.८३.५९स्थानानि देवतानां हि विमानानि पुराणि च
ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः

१३.८३.६०ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह
प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम्