१३. अनुशासनपर्व
१३.९७.१युधिष्ठिर उवाच

१३.९७.२यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ
छत्रं चोपानहौ चैव केनैतत्संप्रवर्तितम्
कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते

१३.९७.३न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते
एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः

१३.९७.४भीष्म उवाच

१३.९७.५शृणु राजन्नवहितश्छत्रोपानहविस्तरम्
यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम्

१३.९७.६यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम्
सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप

१३.९७.७इतिहासं पुरावृत्तमिमं शृणु नराधिप
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः

१३.९७.८पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो
संधाय संधाय शरांश्चिक्षेप किल भार्गवः

१३.९७.९तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः
आनाय्य सा तदा तस्मै प्रादादसकृदच्युत

१३.९७.१०अथ तेन स शब्देन ज्यातलस्य शरस्य च
प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान्

१३.९७.११ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे
स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत्

१३.९७.१२गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान्
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप

१३.९७.१३सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी
तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च

१३.९७.१४स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा
ययावानयितुं भूयः सायकानसितेक्षणा
प्रत्याजगाम च शरांस्तानादाय यशस्विनी

१३.९७.१५सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती

१३.९७.१६स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम्
रेणुके किं चिरेण त्वमागतेति पुनः पुनः

१३.९७.१७रेणुकोवाच

१३.९७.१८शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन
सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता

१३.९७.१९एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया
एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन

१३.९७.२०जमदग्निरुवाच

१३.९७.२१अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा

१३.९७.२२भीष्म उवाच

१३.९७.२३स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान्
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः

१३.९७.२४अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत्
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते

१३.९७.२५आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः
रसं स तं वै वर्षासु प्रवर्षति दिवाकरः

१३.९७.२६ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते

१३.९७.२७अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः
सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति

१३.९७.२८ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम्
सर्वं वर्षाभिनिर्वृत्तमन्नं संभवति प्रभो

१३.९७.२९जातकर्माणि सर्वाणि व्रतोपनयनानि च
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः

१३.९७.३०सत्राणि दानानि तथा संयोगा वित्तसंचयाः
अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव

१३.९७.३१रमणीयानि यावन्ति यावदारम्भकाणि च
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते

१३.९७.३२सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया
प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते