१३. अनुशासनपर्व
१३.९८.१युधिष्ठिर उवाच

१३.९८.२एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत

१३.९८.३भीष्म उवाच

१३.९८.४तथा प्रयाचमानस्य मुनिरग्निसमप्रभः
जमदग्निः शमं नैव जगाम कुरुनन्दन

१३.९८.५ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्
कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते

१३.९८.६चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः
कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम्

१३.९८.७जमदग्निरुवाच

१३.९८.८स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा
अवश्यं विनयाधानं कार्यमद्य मया तव

१३.९८.९अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर
तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा

१३.९८.१०सूर्य उवाच

१३.९८.११असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर
अपकारिणं तु मां विद्धि भगवञ्शरणागतम्

१३.९८.१२भीष्म उवाच

१३.९८.१३ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि

१३.९८.१४ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च

१३.९८.१५दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम्

१३.९८.१६भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत्
सुरापानं च कुर्यात्स यो हन्याच्छरणागतम्

१३.९८.१७एतस्य त्वपनीतस्य समाधिं तात चिन्तय
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः

१३.९८.१८भीष्म उवाच

१३.९८.१९एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः
अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै

१३.९८.२०सूर्य उवाच

१३.९८.२१महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम्
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके

१३.९८.२२अद्यप्रभृति चैवैतल्लोके संप्रचरिष्यति
पुण्यदानेषु सर्वेषु परमक्षय्यमेव च

१३.९८.२३भीष्म उवाच

१३.९८.२४उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम्
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत

१३.९८.२५तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम्
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा

१३.९८.२६छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते

१३.९८.२७स शक्रलोके वसति पूज्यमानो द्विजातिभिः
अप्सरोभिश्च सततं देवैश्च भरतर्षभ

१३.९८.२८दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ
स्नातकाय महाबाहो संशिताय द्विजातये

१३.९८.२९सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्
गोलोके स मुदा युक्तो वसति प्रेत्य भारत

१३.९८.३०एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्
छत्रोपानहदानस्य फलं भरतसत्तम