१४. अश्वमेधिकपर्व
१४.२१.१ब्राह्मण उवाच

१४.२१.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निबोध दशहोतॄणां विधानमिह यादृशम्

१४.२१.३सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत्

१४.२१.४शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते
ततश्चाहवनीयस्तु तस्मिन्संक्षिप्यते हविः

१४.२१.५ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते
रूपं भवति वै व्यक्तं तदनुद्रवते मनः

१४.२१.६ब्राह्मण्युवाच

१४.२१.७कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत्
मनसा चिन्तितं वाक्यं यदा समभिपद्यते

१४.२१.८केन विज्ञानयोगेन मतिश्चित्तं समास्थिता
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति

१४.२१.९ब्राह्मण उवाच

१४.२१.१०तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम्
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते

१४.२१.११प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम्

१४.२१.१२उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्
आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो

१४.२१.१३मन इत्येव भगवांस्तदा प्राह सरस्वतीम्
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ

१४.२१.१४स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम
स्थावरं मत्सकाशे वै जङ्गमं विषये तव

१४.२१.१५यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी

१४.२१.१६यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने
तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति

१४.२१.१७प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति
प्रेर्यमाणा महाभागे विना प्राणमपानती
प्रजापतिमुपाधावत्प्रसीद भगवन्निति

१४.२१.१८ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित्

१४.२१.१९घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते
तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी

१४.२१.२०गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी

१४.२१.२१दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः

१४.२१.२२अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया
किं नु पूर्वं ततो देवी व्याजहार सरस्वती

१४.२१.२३प्राणेन या संभवते शरीरे; प्राणादपानं प्रतिपद्यते च
उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवमावृणोति

१४.२१.२४ततः समाने प्रतितिष्ठतीह; इत्येव पूर्वं प्रजजल्प चापि
तस्मान्मनः स्थावरत्वाद्विशिष्टं; तथा देवी जङ्गमत्वाद्विशिष्टा