१४.२२.१ब्राह्मण उवाच
१४.२२.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सुभगे सप्तहोतॄणां विधानमिह यादृशम्
१४.२२.३घ्राणं चक्षुश्च जिह्वा च त्वक्श्रोत्रं चैव पञ्चमम्
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः
१४.२२.४सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम्
एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने
१४.२२.५ब्राह्मण्युवाच
१४.२२.६सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः
कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो
१४.२२.७ब्राह्मण उवाच
१४.२२.८गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता
परस्परगुणानेते न विजानन्ति कर्हिचित्
१४.२२.९जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति
१४.२२.१०घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति
१४.२२.११घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति
१४.२२.१२घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति
१४.२२.१३घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति
१४.२२.१४घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं बुद्धिरेव च
संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति
१४.२२.१५घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मन एव च
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति
१४.२२.१६अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इन्द्रियाणां च संवादं मनसश्चैव भामिनि
१४.२२.१७मन उवाच
१४.२२.१८न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते
रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते
१४.२२.१९न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन
प्रवरं सर्वभूतानामहमस्मि सनातनम्
१४.२२.२०अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः
१४.२२.२१काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः
१४.२२.२२इन्द्रियाण्यूचुः
१४.२२.२३एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान्
ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि
१४.२२.२४यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम्
भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा
१४.२२.२५अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च
यदि संकल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत्
१४.२२.२६अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा
१४.२२.२७श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च
१४.२२.२८बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम्
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि
१४.२२.२९यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति
१४.२२.३०विषयानेवमस्माभिर्दर्शितानभिमन्यसे
अनागतानतीतांश्च स्वप्ने जागरणे तथा
१४.२२.३१वैमनस्यं गतानां च जन्तूनामल्पचेतसाम्
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम्
१४.२२.३२बहूनपि हि संकल्पान्मत्वा स्वप्नानुपास्य च
बुभुक्षया पीड्यमानो विषयानेव धावसि
१४.२२.३३अगारमद्वारमिव प्रविश्य; संकल्पभोगो विषयानविन्दन्
प्राणक्षये शान्तिमुपैति नित्यं; दारुक्षयेऽग्निर्ज्वलितो यथैव
१४.२२.३४कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः
अस्मानृते नास्ति तवोपलब्धि;स्त्वामप्यृतेऽस्मान्न भजेत हर्षः