१४.२३.१ब्राह्मण उवाच
१४.२३.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सुभगे पञ्चहोतॄणां विधानमिह यादृशम्
१४.२३.३प्राणापानावुदानश्च समानो व्यान एव च
पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः
१४.२३.४ब्राह्मण्युवाच
१४.२३.५स्वभावात्सप्त होतार इति ते पूर्विका मतिः
यथा वै पञ्च होतारः परो भावस्तथोच्यताम्
१४.२३.६ब्राह्मण उवाच
१४.२३.७प्राणेन संभृतो वायुरपानो जायते ततः
अपाने संभृतो वायुस्ततो व्यानः प्रवर्तते
१४.२३.८व्यानेन संभृतो वायुस्ततोदानः प्रवर्तते
उदाने संभृतो वायुः समानः संप्रवर्तते
१४.२३.९तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम्
यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति
१४.२३.१०ब्रह्मोवाच
१४.२३.११यस्मिन्प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे
यस्मिन्प्रचीर्णे च पुनश्चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः
१४.२३.१२प्राण उवाच
१४.२३.१३मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्
१४.२३.१४ब्राह्मण उवाच
१४.२३.१५प्राणः प्रलीयत ततः पुनश्च प्रचचार ह
समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे
१४.२३.१६न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्
न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत
१४.२३.१७मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्
१४.२३.१८व्यानश्च तमुदानश्च भाषमाणमथोचतुः
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव
१४.२३.१९अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना
१४.२३.२०मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्
१४.२३.२१प्रालीयत ततो व्यानः पुनश्च प्रचचार ह
प्राणापानावुदानश्च समानश्च तमब्रुवन्
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव
१४.२३.२२प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना
१४.२३.२३मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्
१४.२३.२४ततः समानः प्रालिल्ये पुनश्च प्रचचार ह
प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन्
समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव
१४.२३.२५समानः प्रचचाराथ उदानस्तमुवाच ह
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना
१४.२३.२६मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्
१४.२३.२७ततः प्रालीयतोदानः पुनश्च प्रचचार ह
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव
१४.२३.२८ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः
१४.२३.२९एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः
एक एव ममैवात्मा बहुधाप्युपचीयते
१४.२३.३०परस्परस्य सुहृदो भावयन्तः परस्परम्
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम्