१४. अश्वमेधिकपर्व
१४.३५.१अर्जुन उवाच

१४.३५.२ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः

१४.३५.३वासुदेव उवाच

१४.३५.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह

१४.३५.५कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम्
शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परंतप

१४.३५.६भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः
याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे

१४.३५.७तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज

१४.३५.८इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते

१४.३५.९शिष्य उवाच

१४.३५.१०कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम्
कुतो जातानि भूतानि स्थावराणि चराणि च

१४.३५.११केन जीवन्ति भूतानि तेषामायुः किमात्मकम्
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः
के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम्

१४.३५.१२एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः

१४.३५.१३वासुदेव उवाच

१४.३५.१४तस्मै संप्रतिपन्नाय यथावत्परिपृच्छते
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने
छायाभूताय दान्ताय यतये ब्रह्मचारिणे

१४.३५.१५तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम

१४.३५.१६ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम्
वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम्

१४.३५.१७भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम्
सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम्

१४.३५.१८प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः

१४.३५.१९उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्
बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा

१४.३५.२०वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च
मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः

१४.३५.२१ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम्

१४.३५.२२तं प्रणम्य महात्मानं सुखासीनं महर्षयः
पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम्

१४.३५.२३कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात्
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम्

१४.३५.२४केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति
प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ

१४.३५.२५इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः
तत्तेऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम्

१४.३५.२६ब्रह्मोवाच

१४.३५.२७सत्याद्भूतानि जातानि स्थावराणि चराणि च
तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः

१४.३५.२८स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम्

१४.३५.२९ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः
सत्याद्भूतानि जातानि भूतं सत्यमयं महत्

१४.३५.३०तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः
अतीतक्रोधसंतापा नियता धर्मसेतवः

१४.३५.३१अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान्
तानहं संप्रवक्ष्यामि शाश्वतान्लोकभावनान्

१४.३५.३२चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक्
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः

१४.३५.३३पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः

१४.३५.३४गदतस्तं ममाद्येह पन्थानं दुर्विदं परम्
निबोधत महाभागा निखिलेन परं पदम्

१४.३५.३५ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम्
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम्
ततः परं तु विज्ञेयमध्यात्मं परमं पदम्

१४.३५.३६ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः
नोपैति यावदध्यात्मं तावदेतान्न पश्यति
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत

१४.३५.३७फलमूलानिलभुजां मुनीनां वसतां वने
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते

१४.३५.३८सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते
श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते

१४.३५.३९इत्येते देवयाना वः पन्थानः परिकीर्तिताः
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः

१४.३५.४०एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ

१४.३५.४१अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना
विषयस्थानि सर्वाणि वर्तमानानि भागशः

१४.३५.४२महानात्मा तथाव्यक्तमहंकारस्तथैव च
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च

१४.३५.४३विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः
चतुर्विंशतिरेषा वस्तत्त्वानां संप्रकीर्तिता

१४.३५.४४तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ
स धीरः सर्वभूतेषु न मोहमधिगच्छति

१४.३५.४५तत्त्वानि यो वेदयते यथातथं; गुणांश्च सर्वानखिलाश्च देवताः
विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकानमलान्समश्नुते