१४. अश्वमेधिकपर्व
१४.४१.१ब्रह्मोवाच

१४.४१.२य उत्पन्नो महान्पूर्वमहंकारः स उच्यते
अहमित्येव संभूतो द्वितीयः सर्ग उच्यते

१४.४१.३अहंकारश्च भूतादिर्वैकारिक इति स्मृतः
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः

१४.४१.४देवानां प्रभवो देवो मनसश्च त्रिलोककृत्
अहमित्येव तत्सर्वमभिमन्ता स उच्यते

१४.४१.५अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम्
स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः

१४.४१.६अहंकारेणाहरतो गुणानिमा;न्भूतादिरेवं सृजते स भूतकृत्
वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जयते जगत्तथा