१४. अश्वमेधिकपर्व
१४.४३.१ब्रह्मोवाच

१४.४३.२मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्

१४.४३.३अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम्
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च

१४.४३.४न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः
एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः

१४.४३.५हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्
श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः

१४.४३.६शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा
एते पर्वतराजानो गणानां मरुतस्तथा

१४.४३.७सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः
यमः पितॄणामधिपः सरितामथ सागरः

१४.४३.८अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते

१४.४३.९अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः

१४.४३.१०त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः
दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा

१४.४३.११दिशामुदीची विप्राणां सोमो राजा प्रतापवान्
कुबेरः सर्वयक्षाणां देवतानां पुरंदरः
एष भूतादिकः सर्गः प्रजानां च प्रजापतिः

१४.४३.१२सर्वेषामेव भूतानामहं ब्रह्ममयो महान्
भूतं परतरं मत्तो विष्णोर्वापि न विद्यते

१४.४३.१३राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान्
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः

१४.४३.१४नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम्
देवदानवनागानां सर्वेषामीश्वरो हि सः

१४.४३.१५भगदेवानुयातानां सर्वासां वामलोचना
माहेश्वरी महादेवी प्रोच्यते पार्वतीति या

१४.४३.१६उमां देवीं विजानीत नारीणामुत्तमां शुभाम्
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा

१४.४३.१७धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे

१४.४३.१८राज्ञां हि विषये येषामवसीदन्ति साधवः
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः

१४.४३.१९राज्ञां तु विषये येषां साधवः परिरक्षिताः
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः

१४.४३.२०अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा

१४.४३.२१प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः

१४.४३.२२ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः
धरणी सर्वभूतानां पृथिवी गन्धलक्षणा

१४.४३.२३स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात्

१४.४३.२४मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः

१४.४३.२५लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम्
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्

१४.४३.२६तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्
अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम्

१४.४३.२७धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम्

१४.४३.२८पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते

१४.४३.२९अपां धातुरसो नित्यं जिह्वया स तु गृह्यते
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते

१४.४३.३०ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते
चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते

१४.४३.३१वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः
त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते

१४.४३.३२आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः

१४.४३.३३मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते
हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते

१४.४३.३४बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा
निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः

१४.४३.३५अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः

१४.४३.३६अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्
सदा पश्याम्यहं लीनं विजानामि शृणोमि च

१४.४३.३७पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति

१४.४३.३८आदिमध्यावसानान्तं सृज्यमानमचेतनम्
न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः

१४.४३.३९न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति
गुणानां गुणभूतानां यत्परं परतो महत्

१४.४३.४०तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित्
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ

१४.४३.४१निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः