१४. अश्वमेधिकपर्व
१४.४४.१ब्रह्मोवाच

१४.४४.२यदादिमध्यपर्यन्तं ग्रहणोपायमेव च
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः

१४.४४.३अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः
श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः

१४.४४.४भूमिरादिस्तु गन्धानां रसानामाप एव च
रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते
शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः

१४.४४.५अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्
आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते

१४.४४.६सावित्री सर्वविद्यानां देवतानां प्रजापतिः
ओंकारः सर्ववेदानां वचसां प्राण एव च
यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते

१४.४४.७गायत्री छन्दसामादिः पशूनामज उच्यते
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः

१४.४४.८श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्
परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः

१४.४४.९कृतमादिर्युगानां च सर्वेषां नात्र संशयः
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा

१४.४४.१०सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः

१४.४४.११स्थावराणां च भूतानां सर्वेषामविशेषतः
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः

१४.४४.१२अहं प्रजापतीनां च सर्वेषां नात्र संशयः
मम विष्णुरचिन्त्यात्मा स्वयंभूरिति स स्मृतः

१४.४४.१३पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः
दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा

१४.४४.१४तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः

१४.४४.१५देवदानवभूतानां पिशाचोरगरक्षसाम्
नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः

१४.४४.१६आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्
भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते

१४.४४.१७आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च

१४.४४.१८अहान्यस्तमयान्तानि उदयान्ता च शर्वरी
सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम्

१४.४४.१९सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

१४.४४.२०सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्
अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम्

१४.४४.२१इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते

१४.४४.२२तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः
निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः