१४. अश्वमेधिकपर्व
१४.५७.१वैशंपायन उवाच

१४.५७.२स मित्रसहमासाद्य त्वभिज्ञानमयाचत
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा

१४.५७.३सौदास उवाच

१४.५७.४न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले

१४.५७.५वैशंपायन उवाच

१४.५७.६इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्
श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले

१४.५७.७अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव

१४.५७.८सौदास उवाच

१४.५७.९प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः

१४.५७.१०सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्
गतिमन्यां न पश्यामि मदयन्तीसहायवान्
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम

१४.५७.११न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः
शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम्

१४.५७.१२तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे

१४.५७.१३उत्तङ्क उवाच

१४.५७.१४राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्
प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप

१४.५७.१५सौदास उवाच

१४.५७.१६ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः
छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा

१४.५७.१७उत्तङ्क उवाच

१४.५७.१८प्राहुर्वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः

१४.५७.१९स भवान्मित्रतामद्य संप्राप्तो मम पार्थिव
स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर

१४.५७.२०अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः
भवत्सकाशमागन्तुं क्षमं मम न वेति वा

१४.५७.२१सौदास उवाच

१४.५७.२२क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन

१४.५७.२३एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह
आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम्

१४.५७.२४वैशंपायन उवाच

१४.५७.२५इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम्
समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान्

१४.५७.२६गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति

१४.५७.२७यथा तयो रक्षणं च मदयन्त्याभिभाषितम्
तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत्

१४.५७.२८स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम्
बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः

१४.५७.२९शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै

१४.५७.३०विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले

१४.५७.३१ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले

१४.५७.३२ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः

१४.५७.३३स दण्डकाष्ठमादाय वल्मीकमखनत्तदा
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः

१४.५७.३४तस्य वेगमसह्यं तमसहन्ती वसुंधरा
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा

१४.५७.३५ततः खनत एवाथ विप्रर्षेर्धरणीतलम्
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्

१४.५७.३६रथेन हरियुक्तेन तं देशमुपजग्मिवान्
वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम्

१४.५७.३७स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः
उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै

१४.५७.३८इतो हि नागलोको वै योजनानि सहस्रशः
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव

१४.५७.३९उत्तङ्क उवाच

१४.५७.४०नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम

१४.५७.४१यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह

१४.५७.४२ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुंधरा
नागलोकस्य पन्थानमकरोज्जनमेजय

१४.५७.४३स तेन मार्गेण तदा नागलोकं विवेश ह
ददर्श नागलोकं च योजनानि सहस्रशः

१४.५७.४४प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलंकृतैः
उपपन्नं महाभाग शातकुम्भमयैस्तथा

१४.५७.४५वापीः स्फटिकसोपाना नदीश्च विमलोदकाः
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान्

१४.५७.४६तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः
पञ्चयोजनविस्तारमायतं शतयोजनम्

१४.५७.४७नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा
निराशश्चाभवत्तात कुण्डलाहरणे पुनः

१४.५७.४८तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा

१४.५७.४९धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे
ऐरावतसुतेनेह तवानीते हि कुण्डले

१४.५७.५०मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा

१४.५७.५१उत्तङ्क उवाच

१४.५७.५२कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति
यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम्

१४.५७.५३अश्व उवाच

१४.५७.५४गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम्
त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः

१४.५७.५५सततं पूजितो विप्र शुचिना भृगुनन्दन
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम्

१४.५७.५६इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया

१४.५७.५७ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत
घनः प्रादुरभूद्धूमो नागलोकभयावहः

१४.५७.५८तेन धूमेन सहसा वर्धमानेन भारत
नागलोके महाराज न प्रज्ञायत किंचन

१४.५७.५९हाहाकृतमभूत्सर्वमैरावतनिवेशनम्
वासुकिप्रमुखानां च नागानां जनमेजय

१४.५७.६०न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत
नीहारसंवृतानीव वनानि गिरयस्तथा

१४.५७.६१ते धूमरक्तनयना वह्नितेजोभितापिताः
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः

१४.५७.६२श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः
संभ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि

१४.५७.६३सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति

१४.५७.६४प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते

१४.५७.६५ततः संपूजितो नागैस्तत्रोत्तङ्कः प्रतापवान्
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत्

१४.५७.६६स गत्वा त्वरितो राजन्गौतमस्य निवेशनम्
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ

१४.५७.६७एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले

१४.५७.६८एवंप्रभावः स मुनिरुत्तङ्को भरतर्षभ
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि