१४. अश्वमेधिकपर्व
१४.९४.१जनमेजय उवाच

१४.९४.२यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः
शान्तिव्यवसिता विप्राः शमो दम इति प्रभो

१४.९४.३तस्माद्यज्ञफलैस्तुल्यं न किंचिदिह विद्यते
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्

१४.९४.४यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः

१४.९४.५देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः

१४.९४.६यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः
सदृशो देवराजेन समृद्ध्या विक्रमेण च

१४.९४.७अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम्
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः

१४.९४.८वैशंपायन उवाच

१४.९४.९यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ
गदतः शृणु मे राजन्यथावदिह भारत

१४.९४.१०पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि

१४.९४.११हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते
देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु

१४.९४.१२सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा

१४.९४.१३आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ
महर्षयो महाराज संबभूवुः कृपान्विताः

१४.९४.१४ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः

१४.९४.१५अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः
न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर

१४.९४.१६धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो
नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते

१४.९४.१७आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत्

१४.९४.१८यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः
एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते

१४.९४.१९शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः
उक्तं न प्रतिजग्राह मानमोहवशानुगः

१४.९४.२०तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम्
जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत

१४.९४.२१ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः
ततः संधाय शक्रेण पप्रच्छुर्नृपतिं वसुम्

१४.९४.२२महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि

१४.९४.२३तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम्
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः

१४.९४.२४एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः

१४.९४.२५अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते

१४.९४.२६धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा
ददाति दानं विप्रेभ्यो लोकविश्वासकारकम्

१४.९४.२७पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः
रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते

१४.९४.२८तेन दत्तानि दानानि पापेन हतबुद्धिना
तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि

१४.९४.२९तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः
दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः

१४.९४.३०अपि संचयबुद्धिर्हि लोभमोहवशंगतः
उद्वेजयति भूतानि हिंसया पापचेतनः

१४.९४.३१एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च
स कृत्वा कर्मणा तेन न सिध्यति दुरागमात्

१४.९४.३२उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः

१४.९४.३३एष धर्मो महांस्त्यागो दानं भूतदया तथा
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा
सनातनस्य धर्मस्य मूलमेतत्सनातनम्

१४.९४.३४श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः
विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः
कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः

१४.९४.३५एते चान्ये च बहवः सिद्धिं परमिकां गताः
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः

१४.९४.३६ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत