१४.९५.१जनमेजय उवाच
१४.९५.२धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत्
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्
१४.९५.३ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्
कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम्
१४.९५.४कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ
१४.९५.५वैशंपायन उवाच
१४.९५.६अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम
१४.९५.७पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्
प्रविवेश महाराज सर्वभूतहिते रतः
१४.९५.८तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः
मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः
१४.९५.९परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव च
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः
१४.९५.१०सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः
दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः
१४.९५.११वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः
उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः
१४.९५.१२यथाशक्त्या भगवता तदन्नं समुपार्जितम्
तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत्
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः
१४.९५.१३एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे
न ववर्ष सहस्राक्षस्तदा भरतसत्तम
१४.९५.१४ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम्
१४.९५.१५अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः
न च वर्षति पर्जन्यः कथमन्नं भविष्यति
१४.९५.१६सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश
१४.९५.१७एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्
१४.९५.१८इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्
प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन्
१४.९५.१९यदि द्वादशवर्षाणि न वर्षिष्यति वासवः
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः
१४.९५.२०यदि द्वादशवर्षाणि न वर्षिष्यति वासवः
व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान्
१४.९५.२१बीजयज्ञो मयायं वै बहुवर्षसमाचितः
बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति
१४.९५.२२नेदं शक्यं वृथा कर्तुं मम सत्रं कथंचन
वर्षिष्यतीह वा देवो न वा देवो भविष्यति
१४.९५.२३अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः
१४.९५.२४यो यदाहारजातश्च स तथैव भविष्यति
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि
१४.९५.२५अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्
त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम्
१४.९५.२६दिव्याश्चाप्सरसां संघाः सगन्धर्वाः सकिंनराः
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा
१४.९५.२७उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते
सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु
स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु
१४.९५.२८इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः
ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम्
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्
१४.९५.२९प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम्
स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम्
१४.९५.३०यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे
तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे
१४.९५.३१न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम्
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे
१४.९५.३२न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्
१४.९५.३३भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता
एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो
१४.९५.३४प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे
१४.९५.३५वैशंपायन उवाच
१४.९५.३६तथा कथयतामेव देवराजः पुरंदरः
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्
१४.९५.३७असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः
निकामवर्षी देवेन्द्रो बभूव जनमेजय
१४.९५.३८प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्
१४.९५.३९ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन्
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि