१५. आश्रंवासिकपर्व
१५.३१.१वैशंपायन उवाच

१५.३१.२ततस्ते पाण्डवा दूरादवतीर्य पदातयः
अभिजग्मुर्नरपतेराश्रमं विनयानताः

१५.३१.३स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा

१५.३१.४आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः
शून्यं मृगगणाकीर्णं कदलीवनशोभितम्

१५.३१.५ततस्तत्र समाजग्मुस्तापसा विविधव्रताः
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः

१५.३१.६तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत्
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः

१५.३१.७तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम्
पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो

१५.३१.८तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः

१५.३१.९ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः
सहदेवस्तु वेगेन प्राधावद्येन सा पृथा

१५.३१.१०सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन्
सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम्

१५.३१.११बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम्
गान्धार्याः कथयामास सहदेवमुपस्थितम्

१५.३१.१२अनन्तरं च राजानं भीमसेनमथार्जुनम्
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे

१५.३१.१३सा ह्यग्रेऽगच्छत तयोर्दंपत्योर्हतपुत्रयोः
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि

१५.३१.१४तान्राजा स्वरयोगेन स्पर्शेन च महामनाः
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः

१५.३१.१५ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्
उपतस्थुर्महात्मानो मातरं च यथाविधि

१५.३१.१६सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा
पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः

१५.३१.१७ततो नार्यो नृसिंहानां स च योधजनस्तदा
पौरजानपदाश्चैव ददृशुस्तं नराधिपम्

१५.३१.१८निवेदयामास तदा जनं तं नामगोत्रतः
युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत्

१५.३१.१९स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः
राजात्मानं गृहगतं पुरेव गजसाह्वये

१५.३१.२०अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत

१५.३१.२१ततश्चाश्रममागच्छत्सिद्धचारणसेवितम्
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव