१५. आश्रंवासिकपर्व
१५.३२.१वैशंपायन उवाच

१५.३२.२स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ
राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे

१५.३२.३तापसैश्च महाभागैर्नानादेशसमागतैः
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः

१५.३२.४तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी

१५.३२.५तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः
संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः

१५.३२.६य एष जाम्बूनदशुद्धगौर;तनुर्महासिंह इव प्रवृद्धः
प्रचण्डघोणः पृथुदीर्घनेत्र;स्ताम्रायतास्यः कुरुराज एषः

१५.३२.७अयं पुनर्मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः
पृथ्वायतांसः पृथुदीर्घबाहु;र्वृकोदरः पश्यत पश्यतैनम्

१५.३२.८यस्त्वेष पार्श्वेऽस्य महाधनुष्मा;ञ्श्यामो युवा वारणयूथपाभः
सिंहोन्नतांसो गजखेलगामी; पद्मायताक्षोऽर्जुन एष वीरः

१५.३२.९कुन्तीसमीपे पुरुषोत्तमौ तु; यमाविमौ विष्णुमहेन्द्रकल्पौ
मनुष्यलोके सकले समोऽस्ति; ययोर्न रूपे न बले न शीले

१५.३२.१०इयं पुनः पद्मदलायताक्षी; मध्यं वयः किंचिदिव स्पृशन्ती
नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः

१५.३२.११अस्यास्तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी
मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य

१५.३२.१२इयं स्वसा राजचमूपतेस्तु; प्रवृद्धनीलोत्पलदामवर्णा
पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहोऽग्र्यः

१५.३२.१३इयं च राज्ञो मगधाधिपस्य; सुता जरासंध इति श्रुतस्य
यवीयसो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी

१५.३२.१४इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च
भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेयं कमलायताक्षी

१५.३२.१५इयं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा
भार्याभिमन्योर्निहतो रणे यो; द्रोणादिभिस्तैर्विरथो रथस्थैः

१५.३२.१६एतास्तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीया नरराजपत्न्यः
राज्ञोऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः

१५.३२.१७एता यथामुख्यमुदाहृता वो; ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः
सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः

१५.३२.१८एवं स राजा कुरुवृद्धवर्यः; समागतस्तैर्नरदेवपुत्रैः
पप्रच्छ सर्वान्कुशलं तदानीं; गतेषु सर्वेष्वथ तापसेषु

१५.३२.१९योधेषु चाप्याश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम्
स्त्रीवृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत्