१५. आश्रंवासिकपर्व
१५.३९.१व्यास उवाच

१५.३९.२भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव

१५.३९.३कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी
द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च

१५.३९.४पूर्वमेवैष हृदये व्यवसायोऽभवन्मम
यथास्मि चोदितो राज्ञा भवत्या पृथयैव च

१५.३९.५न ते शोच्या महात्मानः सर्व एव नरर्षभाः
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः

१५.३९.६भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते
अवतेरुस्ततः सर्वे देवभागैर्महीतलम्

१५.३९.७गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च

१५.३९.८देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे

१५.३९.९गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव

१५.३९.१०पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम्
धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः

१५.३९.११कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा
दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने

१५.३९.१२मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम्
विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयम्
नारायणं हृषीकेशमश्विनौ यमजावुभौ

१५.३९.१३द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम्
लोकांश्च तापयानं वै विद्धि कर्णं च शोभने
यश्च वैरार्थमुद्भूतः संघर्षजननस्तथा

१५.३९.१४यश्च पाण्डवदायादो हतः षड्भिर्महारथैः
स सोम इह सौभद्रो योगादेवाभवद्द्विधा

१५.३९.१५द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात्
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्

१५.३९.१६द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्
भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम्

१५.३९.१७एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने

१५.३९.१८यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम्
तदद्य व्यपनेष्यामि परलोककृताद्भयात्

१५.३९.१९सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे

१५.३९.२०वैशंपायन उवाच

१५.३९.२१इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा
महता सिंहनादेन गङ्गामभिमुखो ययौ

१५.३९.२२धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः

१५.३९.२३ततो गङ्गां समासाद्य क्रमेण स जनार्णवः
निवासमकरोत्सर्वो यथाप्रीति यथासुखम्

१५.३९.२४राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः

१५.३९.२५जगाम तदहश्चापि तेषां वर्षशतं यथा
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान्

१५.३९.२६अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः
ततः कृताभिषेकास्ते नैशं कर्म समाचरन्