१५.४०.१वैशंपायन उवाच
१५.४०.२ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः
१५.४०.३धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत्
१५.४०.४गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्
पौरजानपदश्चापि जनः सर्वो यथावयः
१५.४०.५ततो व्यासो महातेजाः पुण्यं भागीरथीजलम्
अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः
१५.४०.६पाण्डवानां च ये योधाः कौरवाणां च सर्वशः
राजानश्च महाभागा नानादेशनिवासिनः
१५.४०.७ततः सुतुमुलः शब्दो जलान्तर्जनमेजय
प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः
१५.४०.८ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः
१५.४०.९विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः
१५.४०.१०कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः
दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः
१५.४०.११जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः
१५.४०.१२लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः
१५.४०.१३अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः
बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः
१५.४०.१४एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः
१५.४०.१५यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्
तेन तेन व्यदृश्यन्त समुपेता नराधिपाः
१५.४०.१६दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः
निर्वैरा निरहंकारा विगतक्रोधमन्यवः
१५.४०.१७गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः
दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः
१५.४०.१८धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्
१५.४०.१९दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः
१५.४०.२०तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम्
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः
१५.४०.२१तदुत्सवमदोदग्रं हृष्टनारीनराकुलम्
ददृशे बलमायान्तं चित्रं पटगतं यथा
१५.४०.२२धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः