१५. आश्रंवासिकपर्व
१५.४१.१वैशंपायन उवाच

१५.४१.२ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम्
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः

१५.४१.३विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्
संप्रीतमनसः सर्वे देवलोक इवामराः

१५.४१.४पुत्रः पित्रा च मात्रा च भार्या च पतिना सह
भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः

१५.४१.५पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च
संप्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः

१५.४१.६ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः
समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन्

१५.४१.७ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः

१५.४१.८एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः

१५.४१.९तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा

१५.४१.१०नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्
परस्परं समागम्य योधानां भरतर्षभ

१५.४१.११समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्

१५.४१.१२एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम्

१५.४१.१३ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्

१५.४१.१४अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम्
सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे

१५.४१.१५देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन्

१५.४१.१६तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून्

१५.४१.१७विचित्रगतयः सर्वे या अवाप्यामरैः सह
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः

१५.४१.१८गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः
धर्मशीलो महातेजाः कुरूणां हितकृत्सदा
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः

१५.४१.१९या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः

१५.४१.२०ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्

१५.४१.२१विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह
समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते

१५.४१.२२एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम्

१५.४१.२३दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः
दिव्यमाल्याम्बरधरा यथासां पतयस्तथा

१५.४१.२४ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः
सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे

१५.४१.२५यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा
तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः

१५.४१.२६तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः
जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि

१५.४१.२७प्रियैः समागमं तेषां य इमं शृणुयान्नरः
प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह

१५.४१.२८इष्टबान्धवसंयोगमनायासमनामयम्
य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम्

१५.४१.२९स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत
अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः
श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम्