१५.४२.१सूत उवाच
१५.४२.२एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः
पितामहानां सर्वेषां गमनागमनं तदा
१५.४२.३अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति
कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्
१५.४२.४इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्
प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम्
१५.४२.५अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः
कर्मजानि शरीराणि तथैवाकृतयो नृप
१५.४२.६महाभूतानि नित्यानि भूताधिपतिसंश्रयात्
तेषां च नित्यसंवासो न विनाशो वियुज्यताम्
१५.४२.७अनाशाय कृतं कर्म तस्य चेष्टः फलागमः
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते
१५.४२.८अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः
भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम्
१५.४२.९यावन्न क्षीयते कर्म तावदस्य स्वरूपता
संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति
१५.४२.१०नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्
१५.४२.११अश्वमेधे श्रुतिश्चेयमश्वसंज्ञपनं प्रति
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः
१५.४२.१२अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे
१५.४२.१३सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव
यदा समन्विता देवाः पशूनां गमनेश्वराः
गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते
१५.४२.१४नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः
अस्य नानासमायोगं यः पश्यति वृथामतिः
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः
१५.४२.१५वियोगे दोषदर्शी यः संयोगमिह वर्जयेत्
असङ्गे संगमो नास्ति दुःखं भुवि वियोगजम्
१५.४२.१६परापरज्ञस्तु नरो नाभिमानादुदीरितः
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते
१५.४२.१७अदर्शनादापतितः पुनश्चादर्शनं गतः
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता
१५.४२.१८येन येन शरीरेण करोत्ययमनीश्वरः
तेन तेन शरीरेण तदवश्यमुपाश्नुते
मानसं मनसाप्नोति शारीरं च शरीरवान्