१५.४३.१वैशंपायन उवाच
१५.४३.२अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान्
ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह
१५.४३.३स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च
१५.४३.४विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्
धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम्
१५.४३.५जनमेजय उवाच
१५.४३.६ममापि वरदो व्यासो दर्शयेत्पितरं यदि
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते
१५.४३.७प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः
प्रसादादृषिपुत्रस्य मम कामः समृध्यताम्
१५.४३.८सूत उवाच
१५.४३.९इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान्
प्रसादमकरोद्धीमानानयच्च परिक्षितम्
१५.४३.१०ततस्तद्रूपवयसमागतं नृपतिं दिवः
श्रीमन्तं पितरं राजा ददर्श जनमेजयः
१५.४३.११शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम्
अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह
१५.४३.१२ततः सोऽवभृथे राजा मुदितो जनमेजयः
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः
१५.४३.१३स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत्
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा
१५.४३.१४आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः
१५.४३.१५आस्तीक उवाच
१५.४३.१६ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ
१५.४३.१७श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः
१५.४३.१८कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव
ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः
१५.४३.१९प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम्
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्
१५.४३.२०ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः
१५.४३.२१सूत उवाच
१५.४३.२२एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः
पूजयामास तमृषिमनुमान्य पुनः पुनः
१५.४३.२३पप्रच्छ तमृषिं चापि वैशंपायनमच्युतम्
कथावशेषं धर्मज्ञो वनवासस्य सत्तम