२. सभापर्व
२.२.१वैशंपायन उवाच

२.२.२उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः

२.२.३गमनाय मतिं चक्रे पितुर्दर्शनलालसः
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः

२.२.४ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः

२.२.५ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः

२.२.६अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम्
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम्

२.२.७तया स्वजनगामीनि श्रावितो वचनानि सः
संपूजितश्चाप्यसकृच्छिरसा चाभिवादितः

२.२.८तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम्
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः

२.२.९ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः
द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः

२.२.१०भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः

२.२.११अर्चयामास देवांश्च द्विजांश्च यदुपुंगवः
माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः

२.२.१२स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः
वसु प्रदाय च ततः प्रदक्षिणमवर्तत

२.२.१३काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्
गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम्

२.२.१४तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते
प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः

२.२.१५अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम्
अभीषून्संप्रजग्राह स्वयं कुरुपतिस्तदा

२.२.१६उपारुह्यार्जुनश्चापि चामरव्यजनं सितम्
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम्

२.२.१७तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी
पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः

२.२.१८स तथा भ्रातृभिः सार्धं केशवः परवीरहा
अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः

२.२.१९पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम्
युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा

२.२.२०परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः

२.२.२१निवर्तयित्वा च तदा पाण्डवान्सपदानुगान्
स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः

२.२.२२लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात्

२.२.२३अतृप्तमनसामेव तेषां केशवदर्शने
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः

२.२.२४अकामा इव पार्थास्ते गोविन्दगतमानसाः
निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः
स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात्