२.३.१वैशंपायन उवाच
२.३.२अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम्
आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम्
२.३.३उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया
कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति
२.३.४सभायां सत्यसंधस्य यदासीद्वृषपर्वणः
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत
२.३.५ततः सभां करिष्यामि पाण्डवाय यशस्विने
मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम्
२.३.६अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून्
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा
२.३.७सा वै शतसहस्रस्य संमिता सर्वघातिनी
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा
२.३.८वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम्
२.३.९उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः
२.३.१०रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः
२.३.११यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना
आहृताः क्रतवो मुख्याः शतं भरतसत्तम
२.३.१२यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः
२.३.१३यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः
यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः
उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः
२.३.१४नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः
उपासते यत्र सत्रं सहस्रयुगपर्यये
२.३.१५यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः
श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये
२.३.१६सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः
ददौ यत्र सहस्राणि प्रयुतानि च केशवः
२.३.१७तत्र गत्वा स जग्राह गदां शङ्खं च भारत
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः
किंकरैः सह रक्षोभिरगृह्णात्सर्वमेव तत्
२.३.१८तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम्
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्
२.३.१९गदां च भीमसेनाय प्रवरां प्रददौ तदा
देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम्
२.३.२०सभा तु सा महाराज शातकुम्भमयद्रुमा
दश किष्कुसहस्राणि समन्तादायताभवत्
२.३.२१यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा
भ्राजमाना तथा दिव्या बभार परमं वपुः
२.३.२२प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा
२.३.२३नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता
आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा
२.३.२४उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी
बहुरत्ना बहुधना सुकृता विश्वकर्मणा
२.३.२५न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी
आसीद्रूपेण संपन्ना यां चक्रेऽप्रतिमां मयः
२.३.२६तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च
सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः
२.३.२७अन्तरिक्षचरा घोरा महाकाया महाबलाः
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः
२.३.२८तस्यां सभायां नलिनीं चकाराप्रतिमां मयः
वैडूर्यपत्रविततां मणिनालमयाम्बुजाम्
२.३.२९पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्
पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम्
२.३.३०सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम्
मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम्
२.३.३१मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत
२.३.३२तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः
आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः
२.३.३३काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः
हंसकारण्डवयुताश्चक्रवाकोपशोभिताः
२.३.३४जलजानां च माल्यानां स्थलजानां च सर्वशः
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते
२.३.३५ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः
निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत्