२. सभापर्व
२.२२.१वैशंपायन उवाच

२.२२.२भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्
बुद्धिमास्थाय विपुलां जरासंधजिघांसया

२.२२.३नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्
प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा

२.२२.४एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्
त्वरयन्पुरुषव्याघ्रो जरासंधवधेप्सया

२.२२.५यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः
बलं भीम जरासंधे दर्शयाशु तदद्य नः

२.२२.६एवमुक्तस्तदा भीमो जरासंधमरिंदमः
उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः

२.२२.७भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ
बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च

२.२२.८तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः
अभवत्तुमुलो नादः सर्वप्राणिभयंकरः

२.२२.९वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः
भीमसेनस्य नादेन जरासंधस्य चैव ह

२.२२.१०किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही
इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात्

२.२२.११ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम्
रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः

२.२२.१२जरासंधरथं कृष्णो योजयित्वा पताकिनम्
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्

२.२२.१३ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात्

२.२२.१४अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्

२.२२.१५यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः
अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः

२.२२.१६भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः

२.२२.१७शक्रविष्णू हि संग्रामे चेरतुस्तारकामये
रथेन तेन तं कृष्ण उपारुह्य ययौ तदा

२.२२.१८तप्तचामीकराभेण किङ्किणीजालमालिना
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना

२.२२.१९येन शक्रो दानवानां जघान नवतीर्नव
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः

२.२२.२०ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः

२.२२.२१हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत

२.२२.२२असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः

२.२२.२३चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्
क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः

२.२२.२४व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः
तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः

२.२२.२५दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ
आदित्य इव मध्याह्ने सहस्रकिरणावृतः

२.२२.२६न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते
दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः

२.२२.२७तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम्
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः

२.२२.२८यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम्

२.२२.२९स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः
गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः

२.२२.३०तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा

२.२२.३१बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्
पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः

२.२२.३२नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन
भीमार्जुनबलोपेते धर्मस्य परिपालनम्

२.२२.३३जरासंधह्रदे घोरे दुःखपङ्के निमज्जताम्
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते

२.२२.३४विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम

२.२२.३५किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ
कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम्

२.२२.३६तानुवाच हृषीकेशः समाश्वास्य महामनाः
युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति

२.२२.३७तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः
सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति

२.२२.३८ततः प्रतीतमनसस्ते नृपा भरतर्षभ
तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम्

२.२२.३९रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः
कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया

२.२२.४०जरासंधात्मजश्चैव सहदेवो महारथः
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम्

२.२२.४१स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः
सहदेवो नृणां देवं वासुदेवमुपस्थितः

२.२२.४२भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा
अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा

२.२२.४३गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः
विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम्

२.२२.४४कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन्
रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः

२.२२.४५इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत

२.२२.४६दिष्ट्या भीमेन बलवाञ्जरासंधो निपातितः
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम

२.२२.४७दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ
पुनः स्वनगरं प्राप्तावक्षताविति भारत

२.२२.४८ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे

२.२२.४९ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम्
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह

२.२२.५०यथावयः समागम्य राजभिस्तैश्च पाण्डवः
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्

२.२२.५१युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः

२.२२.५२एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः
पाण्डवैर्घातयामास जरासंधमरिं तदा

२.२२.५३घातयित्वा जरासंधं बुद्धिपूर्वमरिंदमः
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत

२.२२.५४सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति

२.२२.५५तेनैव रथमुख्येन तरुणादित्यवर्चसा
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः

२.२२.५६ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्

२.२२.५७ततो गते भगवति कृष्णे देवकिनन्दने
जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा

२.२२.५८संवर्धितौजसो भूयः कर्मणा तेन भारत
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन्

२.२२.५९तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्
तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान्