२. सभापर्व
२.४.१वैशंपायन उवाच

२.४.२ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः
अयुतं भोजयामास ब्राह्मणानां नराधिपः

२.४.३घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि

२.४.४ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत

२.४.५वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि
पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च

२.४.६तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा
उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम्

२.४.७तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि

२.४.८सभायामृषयस्तस्यां पाण्डवैः सह आसते
आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः

२.४.९असितो देवलः सत्यः सर्पमाली महाशिराः
अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः

२.४.१०बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम्

२.४.११तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः
अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ

२.४.१२दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ

२.४.१३बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः
जातूकर्णः शिखावांश्च सुबलः पारिजातकः

२.४.१४पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः
पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा

२.४.१५जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः

२.४.१६कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः
पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः
कर्करो वेणुजङ्घश्च कलापः कठ एव च

२.४.१७मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः
एते चान्ये च बहवो वेदवेदाङ्गपारगाः

२.४.१८उपासते महात्मानं सभायामृषिसत्तमाः
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः

२.४.१९तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः

२.४.२०संग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः
काम्बोजराजः कमलः कम्पनश्च महाबलः

२.४.२१सततं कम्पयामास यवनानेक एव यः
यथासुरान्कालकेयान्देवो वज्रधरस्तथा

२.४.२२जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः
तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण

२.४.२३किरातराजः सुमना यवनाधिपतिस्तथा
चाणूरो देवरातश्च भोजो भीमरथश्च यः

२.४.२४श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः
सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः

२.४.२५केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः

२.४.२६अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः
शिशुपालः सहसुतः करूषाधिपतिस्तथा

२.४.२७वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः
आहुको विपृथुश्चैव गदः सारण एव च

२.४.२८अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः
भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान्
केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः

२.४.२९अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः

२.४.३०तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः

२.४.३१एते चान्ये च बहवो राजानः पृथिवीपते
धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः

२.४.३२चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा
गीतवादित्रकुशलाः शम्यातालविशारदाः

२.४.३३प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः
संचोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः

२.४.३४गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते

२.४.३५तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते