२. सभापर्व
२.४५.१वैशंपायन उवाच

२.४५.२अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम्
युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः

२.४५.३प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा

२.४५.४दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम्
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत्

२.४५.५दुर्योधनो महाराज विवर्णो हरिणः कृशः
दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ

२.४५.६न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम्
ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे

२.४५.७धृतराष्ट्र उवाच

२.४५.८दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन

२.४५.९अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम्
चिन्तयंश्च न पश्यामि शोकस्य तव संभवम्

२.४५.१०ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम्
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम्

२.४५.११आच्छादयसि प्रावारानश्नासि पिशितौदनम्
आजानेया वहन्ति त्वां केनासि हरिणः कृशः

२.४५.१२शयनानि महार्हाणि योषितश्च मनोरमाः
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम्

२.४५.१३देवानामिव ते सर्वं वाचि बद्धं न संशयः
स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक

२.४५.१४दुर्योधन उवाच

२.४५.१५अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा
अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम्

२.४५.१६अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते

२.४५.१७संतोषो वै श्रियं हन्ति अभिमानश्च भारत
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत्

२.४५.१८न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे
ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम

२.४५.१९सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च
अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम्
तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः

२.४५.२०अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः

२.४५.२१दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम्
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने

२.४५.२२कदलीमृगमोकानि कृष्णश्यामारुणानि च
काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान्

२.४५.२३रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः
त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत

२.४५.२४पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः

२.४५.२५न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः

२.४५.२६अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप
शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो

२.४५.२७ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः
त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः

२.४५.२८कमण्डलूनुपादाय जातरूपमयाञ्शुभान्
एवं बलिं समादाय प्रवेशं लेभिरे ततः

२.४५.२९यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः

२.४५.३०शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम्
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत्

२.४५.३१गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ

२.४५.३२उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु

२.४५.३३पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम्
स्थापिता तत्र संज्ञाभूच्छङ्खो ध्मायति नित्यशः

२.४५.३४मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत
उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन्

२.४५.३५पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर

२.४५.३६यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः
वैश्या इव महीपाला द्विजातिपरिवेषकाः

२.४५.३७न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे

२.४५.३८तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम्
शान्तिं न परिगच्छामि दह्यमानेन चेतसा

२.४५.३९शकुनिरुवाच

२.४५.४०यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे
तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम

२.४५.४१अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने

२.४५.४२द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्
आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम्

२.४५.४३वैशंपायन उवाच

२.४५.४४एवमुक्तः शकुनिना राजा दुर्योधनस्तदा
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत्

२.४५.४५अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि

२.४५.४६धृतराष्ट्र उवाच

२.४५.४७क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने
तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्

२.४५.४८स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्
उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम्

२.४५.४९दुर्योधन उवाच

२.४५.५०निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम्

२.४५.५१स मयि त्वं मृते राजन्विदुरेण सुखी भव
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि

२.४५.५२वैशंपायन उवाच

२.४५.५३आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः
धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः

२.४५.५४स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम
मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः

२.४५.५५ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः
सुकृतां सुप्रवेशां च निवेदयत मे शनैः

२.४५.५६दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै

२.४५.५७अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः
द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत

२.४५.५८तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम्
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत्

२.४५.५९सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम्
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत्

२.४५.६०नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो
पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु

२.४५.६१धृतराष्ट्र उवाच

२.४५.६२क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति
दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः

२.४५.६३अशुभं वा शुभं वापि हितं वा यदि वाहितम्
प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः

२.४५.६४मयि संनिहिते चैव भीष्मे च भरतर्षभे
अनयो दैवविहितो न कथंचिद्भविष्यति

२.४५.६५गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम्

२.४५.६६न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते
दैवमेव परं मन्ये येनैतदुपपद्यते

२.४५.६७इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन्
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः