२. सभापर्व
२.४९.१दुर्योधन उवाच

२.४९.२आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः
पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः

२.४९.३धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते

२.४९.४दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः
आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः

२.४९.५आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः

२.४९.६बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम्
सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः

२.४९.७सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः
ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम्

२.४९.८दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्

२.४९.९मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ
आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा

२.४९.१०चेकितान उपासङ्गं धनुः काश्य उपाहरत्
असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम्

२.४९.११अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः
नारदं वै पुरस्कृत्य देवलं चासितं मुनिम्

२.४९.१२प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः
जामदग्न्येन सहितास्तथान्ये वेदपारगाः

२.४९.१३अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम्
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा

२.४९.१४अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः
धनंजयश्च व्यजने भीमसेनश्च पाण्डवः

२.४९.१५उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः

२.४९.१६सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्

२.४९.१७गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः

२.४९.१८तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात्
प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन्

२.४९.१९प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः

२.४९.२०सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः
विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा

२.४९.२१ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत

२.४९.२२नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः

२.४९.२३यथातिमात्रं कौन्तेयः श्रिया परमया युतः
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः

२.४९.२४एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो
कथं नु जीवितं श्रेयो मम पश्यसि भारत

२.४९.२५अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत

२.४९.२६एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर
तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च