२.५४.१युधिष्ठिर उवाच
२.५४.२मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम्
शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः
२.५४.३इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम्
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.४वैशंपायन उवाच
२.५४.५इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम्
२.५४.६युधिष्ठिर उवाच
२.५४.७अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः
२.५४.८संह्रादनो राजरथो य इहास्मानुपावहत्
जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः
२.५४.९अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः
वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन्
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.१०वैशंपायन उवाच
२.५४.११एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
२.५४.१२युधिष्ठिर उवाच
२.५४.१३सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः
२.५४.१४सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः
२.५४.१५सर्वे च पुरभेत्तारो नगमेघनिभा गजाः
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.१६वैशंपायन उवाच
२.५४.१७तमेवंवादिनं पार्थं प्रहसन्निव सौबलः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
२.५४.१८युधिष्ठिर उवाच
२.५४.१९शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः
२.५४.२०महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः
मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः
२.५४.२१अनुसेवां चरन्तीमाः कुशला नृत्यसामसु
स्नातकानाममात्यानां राज्ञां च मम शासनात्
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.२२वैशंपायन उवाच
२.५४.२३एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
२.५४.२४युधिष्ठिर उवाच
२.५४.२५एतावन्त्येव दासानां सहस्राण्युत सन्ति मे
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा
२.५४.२६प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.२७वैशंपायन उवाच
२.५४.२८एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
२.५४.२९युधिष्ठिर उवाच
२.५४.३०रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः
हयैर्विनीतैः संपन्ना रथिभिश्चित्रयोधिभिः
२.५४.३१एकैको यत्र लभते सहस्रपरमां भृतिम्
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.३२वैशंपायन उवाच
२.५४.३३इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान्
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
२.५४.३४युधिष्ठिर उवाच
२.५४.३५अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.३६वैशंपायन उवाच
२.५४.३७एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
२.५४.३८युधिष्ठिर उवाच
२.५४.३९रथानां शकटानां च हयानां चायुतानि मे
युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः
२.५४.४०एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान्
२.५४.४१षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.४२वैशंपायन उवाच
२.५४.४३एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
२.५४.४४युधिष्ठिर उवाच
२.५४.४५ताम्रलोहैः परिवृता निधयो मे चतुःशताः
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
२.५४.४६वैशंपायन उवाच
२.५४.४७एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत