२.६३.१कर्ण उवाच
२.६३.२त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी
दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी
२.६३.३प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म
ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः
२.६३.४अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन
अनवद्या वै पतिषु कामवृत्ति;र्नित्यं दास्ये विदितं वै तवास्तु
२.६३.५पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च
दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति
२.६३.६प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु
२.६३.७वैशंपायन उवाच
२.६३.८तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः
राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः
२.६३.९भीम उवाच
२.६३.१०नाहं कुप्ये सूतपुत्रस्य राज;न्नेष सत्यं दासधर्मः प्रविष्टः
किं विद्विषो वाद्य मां धारयेयु;र्नादेवीस्त्वं यद्यनया नरेन्द्र
२.६३.११वैशंपायन उवाच
२.६३.१२राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा
युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम्
२.६३.१३भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने
प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे
२.६३.१४एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम्
स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः
२.६३.१५कदलीदण्डसदृशं सर्वलक्षणपूजितम्
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्
२.६३.१६अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्
२.६३.१७वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव
२.६३.१८पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे
२.६३.१९क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः
वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः
२.६३.२०विदुर उवाच
२.६३.२१परं भयं पश्यत भीमसेना;द्बुध्यध्वं राज्ञो वरुणस्येव पाशात्
दैवेरितो नूनमयं पुरस्ता;त्परोऽनयो भरतेषूदपादि
२.६३.२२अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम्
योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति
२.६३.२३इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत्
इमां चेत्पूर्वं कितवोऽग्लहीष्य;दीशोऽभविष्यदपराजितात्मा
२.६३.२४स्वप्ने यथैतद्धि धनं जितं स्या;त्तदेवं मन्ये यस्य दीव्यत्यनीशः
गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात
२.६३.२५दुर्योधन उवाच
२.६३.२६भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव
युधिष्ठिरं चेत्प्रवदन्त्यनीश;मथो दास्यान्मोक्ष्यसे याज्ञसेनि
२.६३.२७अर्जुन उवाच
२.६३.२८ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा
ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव
२.६३.२९वैशंपायन उवाच
२.६३.३०ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे
तं रासभाः प्रत्यभाषन्त राज;न्समन्ततः पक्षिणश्चैव रौद्राः
२.६३.३१तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च
भीष्मद्रोणौ गौतमश्चापि विद्वा;न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः
२.६३.३२ततो गान्धारी विदुरश्चैव विद्वां;स्तमुत्पातं घोरमालक्ष्य राज्ञे
निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे
२.६३.३३हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुंगवानाम्
स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम्
२.६३.३४एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात्
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः
२.६३.३५धृतराष्ट्र उवाच
२.६३.३६वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती
२.६३.३७द्रौपद्युवाच
२.६३.३८ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः
२.६३.३९मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः
एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम्
२.६३.४०राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित्
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत
२.६३.४१धृतराष्ट्र उवाच
२.६३.४२द्वितीयं ते वरं भद्रे ददामि वरयस्व माम्
मनो हि मे वितरति नैकं त्वं वरमर्हसि
२.६३.४३द्रौपद्युवाच
२.६३.४४सरथौ सधनुष्कौ च भीमसेनधनंजयौ
नकुलं सहदेवं च द्वितीयं वरये वरम्
२.६३.४५धृतराष्ट्र उवाच
२.६३.४६तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी
२.६३.४७द्रौपद्युवाच
२.६३.४८लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे
अनर्हा वरमादातुं तृतीयं राजसत्तम
२.६३.४९एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः
२.६३.५०पापीयांस इमे भूत्वा संतीर्णाः पतयो मम
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा