३. वनपर्व
३.११६.१अकृतव्रण उवाच

३.११६.२स वेदाध्ययने युक्तो जमदग्निर्महातपाः
तपस्तेपे ततो देवान्नियमाद्वशमानयत्

३.११६.३स प्रसेनजितं राजन्नधिगम्य नराधिपम्
रेणुकां वरयामास स च तस्मै ददौ नृपः

३.११६.४रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया

३.११६.५तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः
सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः

३.११६.६फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता

३.११६.७सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम्
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया

३.११६.८क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम्
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका

३.११६.९व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत

३.११६.१०स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम्
धिक्शब्देन महातेजा गर्हयामास वीर्यवान्

३.११६.११ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा

३.११६.१२तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत्
न च ते जातसंमोहाः किंचिदूचुर्विचेतसः

३.११६.१३ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः

३.११६.१४ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा
तमुवाच महामन्युर्जमदग्निर्महातपाः

३.११६.१५जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः
तत आदाय परशुं रामो मातुः शिरोऽहरत्

३.११६.१६ततस्तस्य महाराज जमदग्नेर्महात्मनः
कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम्

३.११६.१७ममेदं वचनात्तात कृतं ते कर्म दुष्करम्
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा

३.११६.१८स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा

३.११६.१९अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः

३.११६.२०कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत

३.११६.२१तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत्
स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम्

३.११६.२२प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात्
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान्

३.११६.२३आगताय च रामाय तदाचष्ट पिता स्वयम्
गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत्

३.११६.२४स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत्
तस्याथ युधि विक्रम्य भार्गवः परवीरहा

३.११६.२५चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान्
सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः

३.११६.२६अर्जुनस्याथ दायादा रामेण कृतमन्यवः
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन्

३.११६.२७ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्
असकृद्राम रामेति विक्रोशन्तमनाथवत्

३.११६.२८कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर
घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः

३.११६.२९अपक्रान्तेषु चैतेषु जमदग्नौ तथागते
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः

३.११६.३०स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम्
अनर्हन्तं तथाभूतं विललाप सुदुःखितः