३. वनपर्व
३.१२६.१युधिष्ठिर उवाच

३.१२६.२मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः
कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः

३.१२६.३यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः

३.१२६.४यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः
जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम्

३.१२६.५लोमश उवाच

३.१२६.६शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः
यथा मान्धातृशब्दो वै लोकेषु परिगीयते

३.१२६.७इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः
सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः

३.१२६.८अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः
अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः

३.१२६.९अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः
मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह

३.१२६.१०शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना
पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः

३.१२६.११तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात्

३.१२६.१२संभृतो मन्त्रपूतेन वारिणा कलशो महान्
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम्

३.१२६.१३तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः
रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान्

३.१२६.१४शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः
तं प्रविश्याश्रमं श्रान्तः पानीयं सोऽभ्ययाचत

३.१२६.१५तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम्

३.१२६.१६ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः
अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत्

३.१२६.१७स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा

३.१२६.१८ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः
निस्तोयं तं च कलशं ददृशुः सर्व एव ते

३.१२६.१९कस्य कर्मेदमिति च पर्यपृच्छन्समागताः
युवनाश्वो मयेत्येव सत्यं समभिपद्यत

३.१२६.२०न युक्तमिति तं प्राह भगवान्भार्गवस्तदा
सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः

३.१२६.२१मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम्
पुत्रार्थं तव राजर्षे महाबलपराक्रम

३.१२६.२२महाबलो महावीर्यस्तपोबलसमन्वितः
यः शक्रमपि वीर्येण गमयेद्यमसादनम्

३.१२६.२३अनेन विधिना राजन्मयैतदुपपादितम्
अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै

३.१२६.२४न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि

३.१२६.२५पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः
आपस्त्वया महाराज मत्तपोवीर्यसंभृताः
ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि

३.१२६.२६विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान्

३.१२६.२७ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः

३.१२६.२८निश्चक्राम महातेजा न च तं मृत्युराविशत्
युवनाश्वं नरपतिं तदद्भुतमिवाभवत्

३.१२६.२९ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत्
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे

३.१२६.३०मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा
मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः

३.१२६.३१प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा
अवर्धत महीपाल किष्कूणां च त्रयोदश

३.१२६.३२वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम्
उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः

३.१२६.३३धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये
अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन्

३.१२६.३४सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत
धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः

३.१२६.३५तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे

३.१२६.३६तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप
तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः

३.१२६.३७चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम्
शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः

३.१२६.३८एकाह्ना पृथिवी तेन धर्मनित्येन धीमता
निर्जिता शासनादेव सरत्नाकरपत्तना

३.१२६.३९तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम्
चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम्

३.१२६.४०तेन पद्मसहस्राणि गवां दश महात्मना
ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते

३.१२६.४१तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना
वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः

३.१२६.४२तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्
गर्जन्निव महामेघः प्रमथ्य निहतः शरैः

३.१२६.४३प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना
तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा

३.१२६.४४तस्यैतद्देवयजनं स्थानमादित्यवर्चसः
पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः

३.१२६.४५एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत्
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि