३. वनपर्व
३.१२७.१युधिष्ठिर उवाच

३.१२७.२कथंवीर्यः स राजाभूत्सोमको वदतां वर
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः

३.१२७.३लोमश उवाच

३.१२७.४युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा

३.१२७.५स वै यत्नेन महता तासु पुत्रं महीपतिः
कंचिन्नासादयामास कालेन महता अपि

३.१२७.६कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः
जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत

३.१२७.७तं जातं मातरः सर्वाः परिवार्य समासते
सततं पृष्ठतः कृत्वा कामभोगान्विशां पते

३.१२७.८ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि
स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः

३.१२७.९ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः
परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत्

३.१२७.१०तमार्तनादं सहसा शुश्राव स महीपतिः
अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः

३.१२७.११ततः प्रस्थापयामास किमेतदिति पार्थिवः
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति

३.१२७.१२त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः

३.१२७.१३सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः
ऋत्विजैः सहितो राजन्सहामात्य उपाविशत्

३.१२७.१४सोमक उवाच

३.१२७.१५धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता

३.१२७.१६इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो
पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा

३.१२७.१७एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम
यतमानस्य सर्वासु किं नु दुःखमतः परम्

३.१२७.१८वयश्च समतीतं मे सभार्यस्य द्विजोत्तम
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके

३.१२७.१९स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत्
महता लघुना वापि कर्मणा दुष्करेण वा

३.१२७.२०ऋत्विगुवाच

३.१२७.२१अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत्
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक

३.१२७.२२सोमक उवाच

३.१२७.२३कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत्
कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे

३.१२७.२४ऋत्विगुवाच

३.१२७.२५यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते

३.१२७.२६वपायां हूयमानायां धूममाघ्राय मातरः
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्

३.१२७.२७तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति