३.१२९.१लोमश उवाच
३.१२९.२अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम्
३.१२९.३अम्बरीषश्च नाभाग इष्टवान्यमुनामनु
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः
३.१२९.४देशो नाहुषयज्ञानामयं पुण्यतमो नृप
यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान्
३.१२९.५सार्वभौमस्य कौन्तेय ययातेरमितौजसः
स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह
३.१२९.६पश्य नानाविधाकारैरग्निभिर्निचितां महीम्
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः
३.१२९.७एषा शम्येकपत्रा सा शरकं चैतदुत्तमम्
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम्
३.१२९.८एतदार्चीकपुत्रस्य योगैर्विचरतो महीम्
अपसर्पणं महीपाल रौप्यायाममितौजसः
३.१२९.९अत्रानुवंशं पठतः शृणु मे कुरुनन्दन
उलूखलैराभरणैः पिशाची यदभाषत
३.१२९.१०युगंधरे दधि प्राश्य उषित्वा चाच्युतस्थले
तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि
३.१२९.११एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि
एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा
३.१२९.१२अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम
द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत
३.१२९.१३अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्
ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात्
३.१२९.१४एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः
३.१२९.१५अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः
यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम्
३.१२९.१६अत्रैव भरतो राजा मेध्यमश्वमवासृजत्
असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम्
३.१२९.१७अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्
आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः
३.१२९.१८अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति
पूयते दुष्कृताच्चैव समुपस्पृश्य भारत
३.१२९.१९वैशंपायन उवाच
३.१२९.२०तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्
३.१२९.२१सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम
इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्
३.१२९.२२लोमश उवाच
३.१२९.२३एवमेतन्महाबाहो पश्यन्ति परमर्षयः
सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम्
३.१२९.२४यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः
ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च
३.१२९.२५वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः