३. वनपर्व
३.१३०.१लोमश उवाच

३.१३०.२इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत
मर्तुकामा नरा राजन्निहायान्ति सहस्रशः

३.१३०.३एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः

३.१३०.४एषा सरस्वती पुण्या दिव्या चोघवती नदी
एतद्विनशनं नाम सरस्वत्या विशां पते

३.१३०.५द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः

३.१३०.६एष वै चमसोद्भेदो यत्र दृश्या सरस्वती
यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः

३.१३०.७एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम
लोपामुद्रा समागम्य भर्तारमवृणीत वै

३.१३०.८एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम्

३.१३०.९एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्
एषा रम्या विपाशा च नदी परमपावनी

३.१३०.१०अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः
बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः

३.१३०.११काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह

३.१३०.१२अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च
अग्नेश्चात्रैव संवादः काश्यपस्य च भारत

३.१३०.१३एतद्द्वारं महाराज मानसस्य प्रकाशते
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्

३.१३०.१४एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः
नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः

३.१३०.१५एष उज्जानको नाम यवक्रीर्यत्र शान्तवान्
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः

३.१३०.१६ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना

३.१३०.१७समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया
तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम्

३.१३०.१८जलां चोपजलां चैव यमुनामभितो नदीम्
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत

३.१३०.१९तां देवसमितिं तस्य वासवश्च विशां पते
अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत

३.१३०.२०जिज्ञासमानौ वरदौ महात्मानमुशीनरम्
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः

३.१३०.२१ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात्
शरणार्थी तदा राजन्निलिल्ये भयपीडितः