३.१४१.१युधिष्ठिर उवाच
३.१४१.२अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर
३.१४१.३संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात्
ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह
३.१४१.४ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति
३.१४१.५अथ वा सहदेवेन धौम्येन च सहाभिभो
सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः
३.१४१.६रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण
३.१४१.७त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः
अहं च नकुलश्चैव लोमशश्च महातपाः
३.१४१.८ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः
वसेह द्रौपदीं रक्षन्यावदागमनं मम
३.१४१.९भीम उवाच
३.१४१.१०राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया
३.१४१.११तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः
किं पुनः सहदेवं च मां च कृष्णां च भारत
३.१४१.१२रथाः कामं निवर्तन्तां सर्वे च परिचारकाः
सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान्
३.१४१.१३न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च
३.१४१.१४इयं चापि महाभागा राजपुत्री यतव्रता
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम्
३.१४१.१५तथैव सहदेवोऽयं सततं त्वामनुव्रतः
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै
३.१४१.१६अपि चात्र महाराज सव्यसाचिदिदृक्षया
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह
३.१४१.१७यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः
पद्भिरेव गमिष्यामो मा राजन्विमना भव
३.१४१.१८अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति
इति मे वर्तते बुद्धिर्मा राजन्विमना भव
३.१४१.१९सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ
दुर्गे संतारयिष्यामि यद्यशक्तौ भविष्यतः
३.१४१.२०युधिष्ठिर उवाच
३.१४१.२१एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्
यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि
३.१४१.२२यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते
बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम्
३.१४१.२३यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः
३.१४१.२४वैशंपायन उवाच
३.१४१.२५ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा
गमिष्यामि न संतापः कार्यो मां प्रति भारत
३.१४१.२६लोमश उवाच
३.१४१.२७तपसा शक्यते गन्तुं पर्वतो गन्धमादनः
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्
३.१४१.२८नकुलः सहदेवश्च भीमसेनश्च पार्थिव
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्
३.१४१.२९वैशंपायन उवाच
३.१४१.३०एवं संभाषमाणास्ते सुबाहोर्विषयं महत्
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत्
३.१४१.३१किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम्
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्
३.१४१.३२सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत
विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम्
३.१४१.३३तत्र ते पूजितास्तेन सर्व एव सुखोषिताः
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति
३.१४१.३४इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा
सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप
३.१४१.३५राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः
३.१४१.३६ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम्