३.१४२.१युधिष्ठिर उवाच
३.१४२.२भीमसेन यमौ चोभौ पाञ्चालि च निबोधत
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान्
३.१४२.३दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम्
अशक्येऽपि व्रजामेति धनंजयदिदृक्षया
३.१४२.४तन्मे दहति गात्राणि तूलराशिमिवानलः
यच्च वीरं न पश्यामि धनंजयमुपान्तिके
३.१४२.५तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम्
याज्ञसेन्याः परामर्शः स च वीर दहत्युत
३.१४२.६नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम्
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर
३.१४२.७तीर्थानि चैव रम्याणि वनानि च सरांसि च
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया
३.१४२.८पञ्च वर्षाण्यहं वीरं सत्यसंधं धनंजयम्
यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर
३.१४२.९तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम्
न पश्यामि महाबाहुं तेन तप्ये वृकोदर
३.१४२.१०कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम्
न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर
३.१४२.११चरन्तमरिसंघेषु कालं क्रुद्धमिवान्तकम्
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम्
३.१४२.१२यः स शक्रादनवरो वीर्येण द्रविणेन च
यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः
३.१४२.१३दुःखेन महताविष्टः स्वकृतेनानिवर्तिना
अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम्
३.१४२.१४सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा
ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च
३.१४२.१५स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः
अपि वज्रधरस्यापि भवेत्कालविषोपमः
३.१४२.१६शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान्
दाताभयस्य बीभत्सुरमितात्मा महाबलः
३.१४२.१७सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता
आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः
३.१४२.१८रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम
बहूनि बहुजातानि यानि प्राप्तः सुयोधनः
३.१४२.१९यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम
सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव
३.१४२.२०वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि
अजेयमजितं युद्धे तं न पश्यामि फल्गुनम्
३.१४२.२१संकर्षणं महावीर्यं त्वां च भीमापराजितम्
अनुजातः स वीर्येण वासुदेवं च शत्रुहा
३.१४२.२२यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः
जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः
३.१४२.२३ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः
प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्
३.१४२.२४विशाला बदरी यत्र नरनारायणाश्रमः
तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम्
३.१४२.२५कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम्
पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः
३.१४२.२६नातप्ततपसा शक्यो देशो गन्तुं वृकोदर
न नृशंसेन लुब्धेन नाप्रशान्तेन भारत
३.१४२.२७तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः
सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः
३.१४२.२८मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान्
प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति
३.१४२.२९ते वयं नियतात्मानः पर्वतं गन्धमादनम्
प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः