३. वनपर्व
३.१४३.१वैशंपायन उवाच

३.१४३.२ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः
बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः

३.१४३.३परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम्
पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम्

३.१४३.४सरांसि सरितश्चैव पर्वतांश्च वनानि च
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान्

३.१४३.५आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः
चेरुरुच्चावचाकारान्देशान्विषमसंकटान्
पश्यन्तो मृगजातानि बहूनि विविधानि च

३.१४३.६ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्
विविशुस्ते महात्मानः किंनराचरितं गिरिम्

३.१४३.७प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्
चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते

३.१४३.८ततो रेणुः समुद्भूतः सपत्रबहुलो महान्
पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत्

३.१४३.९न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना
न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम्

३.१४३.१०न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः
आकृष्यमाणा वातेन साश्मचूर्णेन भारत

३.१४३.११द्रुमाणां वातभग्नानां पततां भूतले भृशम्
अन्येषां च महीजानां शब्दः समभवन्महान्

३.१४३.१२द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम्
इति ते मेनिरे सर्वे पवनेन विमोहिताः

३.१४३.१३ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे

३.१४३.१४ततः कार्मुकमुद्यम्य भीमसेनो महाबलः
कृष्णामादाय संगत्या तस्थावाश्रित्य पादपम्

३.१४३.१५धर्मराजश्च धौम्यश्च निलिल्याते महावने
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते

३.१४३.१६नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः
वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे

३.१४३.१७मन्दीभूते च पवने तस्मिन्रजसि शाम्यति
महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह

३.१४३.१८ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः

३.१४३.१९ततः सागरगा आपः कीर्यमाणाः समन्ततः
प्रादुरासन्सकलुषाः फेनवत्यो विशां पते

३.१४३.२०वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्
परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान्

३.१४३.२१तस्मिन्नुपरते वर्षे वाते च समतां गते
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे

३.१४३.२२निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत
प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम्