३. वनपर्व
३.१४७.१वैशंपायन उवाच

३.१४७.२एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः
भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः

३.१४७.३को भवान्किंनिमित्तं वा वानरं वपुराश्रितः
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति

३.१४७.४कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः
पाण्डवो वायुतनयो भीमसेन इति श्रुतः

३.१४७.५स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत्
हनूमान्वायुतनयो वायुपुत्रमभाषत

३.१४७.६वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम्
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्

३.१४७.७भीम उवाच

३.१४७.८वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर
प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम्

३.१४७.९हनूमानुवाच

३.१४७.१०नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम्
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम्

३.१४७.११भीम उवाच

३.१४७.१२निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये

३.१४७.१३यद्यागमैर्न विन्देयं तमहं भूतभावनम्
क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम्

३.१४७.१४हनूमानुवाच

३.१४७.१५क एष हनुमान्नाम सागरो येन लङ्घितः
पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते

३.१४७.१६भीम उवाच

३.१४७.१७भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः
रामायणेऽतिविख्यातः शूरो वानरपुंगवः

३.१४७.१८रामपत्नीकृते येन शतयोजनमायतः
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः

३.१४७.१९स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे

३.१४७.२०उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम्
मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम्

३.१४७.२१वैशंपायन उवाच

३.१४७.२२विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम्
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत्

३.१४७.२३प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम्

३.१४७.२४सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः

३.१४७.२५उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम्
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः

३.१४७.२६उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह

३.१४७.२७यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः

३.१४७.२८प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम

३.१४७.२९सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः
पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक्

३.१४७.३०हनूमानुवाच

३.१४७.३१यत्ते मम परिज्ञाने कौतूहलमरिंदम
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन

३.१४७.३२अहं केसरिणः क्षेत्रे वायुना जगदायुषा
जातः कमलपत्राक्ष हनूमान्नाम वानरः

३.१४७.३३सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्
सर्ववानरराजानौ सर्ववानरयूथपाः

३.१४७.३४उपतस्थुर्महावीर्या मम चामित्रकर्शन
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा

३.१४७.३५निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे
ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्

३.१४७.३६अथ दाशरथिर्वीरो रामो नाम महाबलः
विष्णुर्मानुषरूपेण चचार वसुधामिमाम्

३.१४७.३७स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः
सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः

३.१४७.३८तस्य भार्या जनस्थानाद्रावणेन हृता बलात्
वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम्

३.१४७.३९हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम्

३.१४७.४०तेन तस्याभवत्सख्यं राघवस्य महात्मनः
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत्
स हरीन्प्रेषयामास सीतायाः परिमार्गणे

३.१४७.४१ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम्
तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता

३.१४७.४२ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः
शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः

३.१४७.४३दृष्टा सा च मया देवी रावणस्य निवेशने
प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै

३.१४७.४४ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान्
पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा

३.१४७.४५ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया
यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन्
तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत्

३.१४७.४६दश वर्षसहस्राणि दश वर्षशतानि च
राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः

३.१४७.४७तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम्

३.१४७.४८अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम्
धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत

३.१४७.४९दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः
यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि