३. वनपर्व
३.१४८.१वैशंपायन उवाच

३.१४८.२एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्

३.१४८.३मया धन्यतरो नास्ति यदार्यं दृष्टवानहम्
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्

३.१४८.४एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम
यत्ते तदासीत्प्लवतः सागरं मकरालयम्
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्

३.१४८.५एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत्

३.१४८.६न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्
कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम्

३.१४८.७अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे

३.१४८.८भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः
कालं समनुवर्तन्ते यथा भावा युगे युगे
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च

३.१४८.९तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह
युगं समनुवर्तामि कालो हि दुरतिक्रमः

३.१४८.१०भीम उवाच

३.१४८.११युगसंख्यां समाचक्ष्व आचारं च युगे युगे
धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ

३.१४८.१२हनूमानुवाच

३.१४८.१३कृतं नाम युगं तात यत्र धर्मः सनातनः
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे

३.१४८.१४न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः
ततः कृतयुगं नाम कालेन गुणतां गतम्

३.१४८.१५देवदानवगन्धर्वयक्षराक्षसपन्नगाः
नासन्कृतयुगे तात तदा न क्रयविक्रयाः

३.१४८.१६न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी
अभिध्याय फलं तत्र धर्मः संन्यास एव च

३.१४८.१७न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः
नासूया नापि रुदितं न दर्पो नापि पैशुनम्

३.१४८.१८न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम्
न भयं न च संतापो न चेर्ष्या न च मत्सरः

३.१४८.१९ततः परमकं ब्रह्म या गतिर्योगिनां परा
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा

३.१४८.२०ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः

३.१४८.२१समाश्रमं समाचारं समज्ञानमतीबलम्
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन्

३.१४८.२२एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः

३.१४८.२३चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम्

३.१४८.२४आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः

३.१४८.२५एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्
त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते

३.१४८.२६पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः

३.१४८.२७ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः
त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः

३.१४८.२८प्रचलन्ति न वै धर्मात्तपोदानपरायणाः
स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन्

३.१४८.२९द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते
विष्णुर्वै पीततां याति चतुर्धा वेद एव च

३.१४८.३०ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे

३.१४८.३१एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया
तपोदानप्रवृत्ता च राजसी भवति प्रजा

३.१४८.३२एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः

३.१४८.३३सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन्
कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः

३.१४८.३४यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे

३.१४८.३५एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः

३.१४८.३६तामसं युगमासाद्य कृष्णो भवति केशवः
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा

३.१४८.३७ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा
उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा

३.१४८.३८युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः

३.१४८.३९लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते

३.१४८.४०एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः

३.१४८.४१यच्च ते मत्परिज्ञाने कौतूहलमरिंदम
अनर्थकेषु को भावः पुरुषस्य विजानतः

३.१४८.४२एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम्