३. वनपर्व
३.१५६.१वैशंपायन उवाच

३.१५६.२युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम्
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन्

३.१५६.३ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे

३.१५६.४तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम्

३.१५६.५अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत्

३.१५६.६कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः
सह भ्रातृभिरासीनं पर्यपृच्छदनामयम्

३.१५६.७नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे
मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति

३.१५६.८कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु

३.१५६.९सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम्
यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे

३.१५६.१०यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे

३.१५६.११कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते
दानधर्मतपःशौचैरार्जवेन तितिक्षया

३.१५६.१२पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव

३.१५६.१३स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः
पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च

३.१५६.१४किं न्वस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम्

३.१५६.१५पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः
यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ

३.१५६.१६अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु

३.१५६.१७कामिनः सह कान्ताभिः परस्परमनुव्रताः
दृश्यन्ते शैलशृङ्गस्थास्तथा किंपुरुषा नृप

३.१५६.१८अरजांसि च वासांसि वसानाः कौशिकानि च
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः

३.१५६.१९विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः
महोरगगणाश्चैव सुपर्णाश्चोरगादयः

३.१५६.२०अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु
भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः

३.१५६.२१इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः
न कार्या वः कथंचित्स्यात्तत्राभिसरणे मतिः

३.१५६.२२न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः
विहारो ह्यत्र देवानाममानुषगतिस्तु सा

३.१५६.२३ईषच्चपलकर्माणं मनुष्यमिह भारत
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः

३.१५६.२४अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर
गतिः परमसिद्धानां देवर्षीणां प्रकाशते

३.१५६.२५चापलादिह गच्छन्तं पार्थ यानमतः परम्
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन

३.१५६.२६अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः
इह वैश्रवणस्तात पर्वसंधिषु दृश्यते

३.१५६.२७शिखरे तं समासीनमधिपं सर्वरक्षसाम्
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम्

३.१५६.२८देवदानवसिद्धानां तथा वैश्रवणस्य च
गिरेः शिखरमुद्यानमिदं भरतसत्तम

३.१५६.२९उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु
गीतसामस्वनस्तात श्रूयते गन्धमादने

३.१५६.३०एतदेवंविधं चित्रमिह तात युधिष्ठिर
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु

३.१५६.३१भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम्

३.१५६.३२न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च
ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि