३.१८५.१वैशंपायन उवाच
३.१८५.२ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह
कथयस्वेह चरितं मनोर्वैवस्वतस्य मे
३.१८५.३मार्कण्डेय उवाच
३.१८५.४विवस्वतः सुतो राजन्परमर्षिः प्रतापवान्
बभूव नरशार्दूल प्रजापतिसमद्युतिः
३.१८५.५ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः
अतिचक्राम पितरं मनुः स्वं च पितामहम्
३.१८५.६ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः
एकपादस्थितस्तीव्रं चचार सुमहत्तपः
३.१८५.७अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम्
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा
३.१८५.८तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम्
वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्
३.१८५.९भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत
३.१८५.१०दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः
भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी
३.१८५.११तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव
३.१८५.१२स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम्
३.१८५.१३उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः
अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम्
३.१८५.१४स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः
पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः
३.१८५.१५अथ कालेन महता स मत्स्यः सुमहानभूत्
अलिञ्जरे जले चैव नासौ समभवत्किल
३.१८५.१६अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत
भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय
३.१८५.१७उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा
३.१८५.१८तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून्
३.१८५.१९द्वियोजनायता वापी विस्तृता चापि योजनम्
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन
विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते
३.१८५.२०मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत
नय मां भगवन्साधो समुद्रमहिषीं प्रभो
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे
३.१८५.२१एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः
३.१८५.२२स तत्र ववृधे मत्स्यः किंचित्कालमरिंदम
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत्
३.१८५.२३गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो
समुद्रं नय मामाशु प्रसीद भगवन्निति
३.१८५.२४उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम्
समुद्रमनयत्पार्थ तत्र चैनमवासृजत्
३.१८५.२५सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै
३.१८५.२६यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत्
३.१८५.२७भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम
३.१८५.२८अचिराद्भगवन्भौममिदं स्थावरजङ्गमम्
सर्वमेव महाभाग प्रलयं वै गमिष्यति
३.१८५.२९संप्रक्षालनकालोऽयं लोकानां समुपस्थितः
तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम्
३.१८५.३०त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति
तस्य सर्वस्य संप्राप्तः कालः परमदारुणः
३.१८५.३१नौश्च कारयितव्या ते दृढा युक्तवटाकरा
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने
३.१८५.३२बीजानि चैव सर्वाणि यथोक्तानि मया पुरा
तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः
३.१८५.३३नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस
३.१८५.३४एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम्
नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो
३.१८५.३५एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम्
३.१८५.३६ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा
नावा तु शुभया वीर महोर्मिणमरिंदम
३.१८५.३७चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय
शृङ्गी तत्राजगामाशु तदा भरतसत्तम
३.१८५.३८तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम्
३.१८५.३९वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि
मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत्
३.१८५.४०संयतस्तेन पाशेन मत्स्यः परपुरंजय
वेगेन महता नावं प्राकर्षल्लवणाम्भसि
३.१८५.४१स ततार तया नावा समुद्रं मनुजेश्वर
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा
३.१८५.४२क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ
घूर्णते चपलेव स्त्री मत्ता परपुरंजय
३.१८५.४३नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे
सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुंगव
३.१८५.४४एवंभूते तदा लोके संकुले भरतर्षभ
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह
३.१८५.४५एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये
३.१८५.४६ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन
३.१८५.४७ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम्
३.१८५.४८सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा
३.१८५.४९तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ
३.१८५.५०अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते
मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात्
३.१८५.५१मनुना च प्रजाः सर्वाः सदेवासुरमानवाः
स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति
३.१८५.५२तपसा चातितीव्रेण प्रतिभास्य भविष्यति
मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति
३.१८५.५३इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम्
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः
३.१८५.५४तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ
३.१८५.५५इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्
आख्यानमिदमाख्यातं सर्वपापहरं मया
३.१८५.५६य इदं शृणुयान्नित्यं मनोश्चरितमादितः
स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः