३.२०.१वासुदेव उवाच
३.२०.२एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा
३.२०.३न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान्
युद्धज्ञश्चास्मि वृष्णीनां नात्र किंचिदतोऽन्यथा
३.२०.४आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः
३.२०.५त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम्
कश्मलाभिहतो वीर ततोऽहमपयातवान्
३.२०.६स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया
पश्य मे हयसंयाने शिक्षां केशवनन्दन
३.२०.७दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः
वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम्
३.२०.८एवमुक्त्वा ततो वीर हयान्संचोद्य संगरे
रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा
३.२०.९मण्डलानि विचित्राणि यमकानीतराणि च
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः
३.२०.१०प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः
३.२०.११ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम्
दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम्
३.२०.१२सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ
चकार नातियत्नेन तदद्भुतमिवाभवत्
३.२०.१३अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट्
यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत्
३.२०.१४दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन्
भूय एव महाबाहो प्रययौ हयसंमतः
३.२०.१५ततो बाणान्बहुविधान्पुनरेव स सौभराट्
मुमोच तनये वीरे मम रुक्मिणिनन्दने
३.२०.१६तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम्
३.२०.१७छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट्
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान्
३.२०.१८प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः
ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः
३.२०.१९ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः
शिरस्युरसि वक्त्रे च स मुमोह पपात च
३.२०.२०तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते
रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम्
३.२०.२१तमर्चितं सर्वदाशार्हपूगै;राशीर्भिरर्कज्वलनप्रकाशम्
दृष्ट्वा शरं ज्यामभिनीयमानं; बभूव हाहाकृतमन्तरिक्षम्
३.२०.२२ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः
नारदं प्रेषयामासुः श्वसनं च महाबलम्
३.२०.२३तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्
नैष वध्यस्त्वया वीर शाल्वराजः कथंचन
३.२०.२४संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे
एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित्
३.२०.२५मृत्युरस्य महाबाहो रणे देवकिनन्दनः
कृष्णः संकल्पितो धात्रा तन्न मिथ्या भवेदिति
३.२०.२६ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम्
संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत्
३.२०.२७तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः
३.२०.२८स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा