३. वनपर्व
३.२२२.१वैशंपायन उवाच

३.२२२.२उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु
द्रौपदी सत्यभामा च विविशाते तदा समम्
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः

३.२२२.३चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे
कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम्

३.२२२.४अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा

३.२२२.५केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि
लोकपालोपमान्वीरान्यूनः परमसंमतान्
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे

३.२२२.६तव वश्या हि सततं पाण्डवाः प्रियदर्शने
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे

३.२२२.७व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा
विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः

३.२२२.८मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम्
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः

३.२२२.९एवमुक्त्वा सत्यभामा विरराम यशस्विनी
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्

३.२२२.१०असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्

३.२२२.११अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते
तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया

३.२२२.१२यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव

३.२२२.१३उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात्

३.२२२.१४अमित्रप्रहितांश्चापि गदान्परमदारुणान्
मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः

३.२२२.१५जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्

३.२२२.१६जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा

३.२२२.१७पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन

३.२२२.१८वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि

३.२२२.१९अहंकारं विहायाहं कामक्रोधौ च सर्वदा
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम्

३.२२२.२०प्रणयं प्रतिसंगृह्य निधायात्मानमात्मनि
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी

३.२२२.२१दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात्
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि

३.२२२.२२सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान्
सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः

३.२२२.२३देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः

३.२२२.२४नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि
न संविशामि नाश्नामि सदा कर्मकरेष्वपि

३.२२२.२५क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम्
प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च

३.२२२.२६प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी
संयता गुप्तधान्या च सुसंमृष्टनिवेशना

३.२२२.२७अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती
अनुकूलवती नित्यं भवाम्यनलसा सदा

३.२२२.२८अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये

३.२२२.२९अतिहासातिरोषौ च क्रोधस्थानं च वर्जये
निरताहं सदा सत्ये भर्तॄणामुपसेवने
सर्वथा भर्तृरहितं न ममेष्टं कथंचन

३.२२२.३०यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्
सुमनोवर्णकापेता भवामि व्रतचारिणी

३.२२२.३१यच्च भर्ता न पिबति यच्च भर्ता न खादति
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम्

३.२२२.३२यथोपदेशं नियता वर्तमाना वराङ्गने
स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता

३.२२२.३३ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा
भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु
मान्यानां मानसत्कारा ये चान्ये विदिता मया

३.२२२.३४तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता
विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता

३.२२२.३५मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः
आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम्

३.२२२.३६पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः
स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत्

३.२२२.३७अहं पतीन्नातिशये नात्यश्ने नातिभूषये
नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता

३.२२२.३८अवधानेन सुभगे नित्योत्थानतयैव च
भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च

३.२२२.३९नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्
स्वयं परिचराम्येका स्नानाच्छादनभोजनैः

३.२२२.४०नैतामतिशये जातु वस्त्रभूषणभोजनैः
नापि परिवदे चाहं तां पृथां पृथिवीसमाम्

३.२२२.४१अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने

३.२२२.४२अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः

३.२२२.४३दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम्
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम्

३.२२२.४४तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः

३.२२२.४५शतं दासीसहस्राणि कौन्तेयस्य महात्मनः
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः

३.२२२.४६महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः
मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः

३.२२२.४७तासां नाम च रूपं च भोजनाच्छादनानि च
सर्वासामेव वेदाहं कर्म चैव कृताकृतम्

३.२२२.४८शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत

३.२२२.४९शतमश्वसहस्राणि दश नागायुतानि च
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः

३.२२२.५०एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत्
येषां संख्याविधिं चैव प्रदिशामि शृणोमि च

३.२२२.५१अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः
आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम्

३.२२२.५२सर्वं राज्ञः समुदयमायं च व्ययमेव च
एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम्

३.२२२.५३मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः
उपासनरताः सर्वे घटन्ते स्म शुभानने

३.२२२.५४तमहं भारमासक्तमनाधृष्यं दुरात्मभिः
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै

३.२२२.५५अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्

३.२२२.५६अनिशायां निशायां च सहायाः क्षुत्पिपासयोः
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे

३.२२२.५७प्रथमं प्रतिबुध्यामि चरमं संविशामि च
नित्यकालमहं सत्ये एतत्संवननं मम

३.२२२.५८एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये

३.२२२.५९तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्

३.२२२.६०अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे
कामकारः सखीनां हि सोपहासं प्रभाषितुम्