३.२२३.१द्रौपद्युवाच
३.२२३.२इमं तु ते मार्गमपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः
यस्मिन्यथावत्सखि वर्तमाना; भर्तारमाच्छेत्स्यसि कामिनीभ्यः
३.२२३.३नैतादृशं दैवतमस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु
यथा पतिस्तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश्च हन्यात्
३.२२३.४तस्मादपत्यं विविधाश्च भोगाः; शय्यासनान्यद्भुतदर्शनानि
वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश्च लोको विषमा च कीर्तिः
३.२२३.५सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि
सा कृष्णमाराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च
३.२२३.६तथाशनैश्चारुभिरग्र्यमाल्यै;र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः
अस्याः प्रियोऽस्मीति यथा विदित्वा; त्वामेव संश्लिष्यति सर्वभावैः
३.२२३.७श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये
दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम्
३.२२३.८संप्रेषितायामथ चैव दास्या;मुत्थाय सर्वं स्वयमेव कुर्याः
जानातु कृष्णस्तव भावमेतं; सर्वात्मना मां भजतीति सत्ये
३.२२३.९त्वत्संनिधौ यत्कथयेत्पतिस्ते; यद्यप्यगुह्यं परिरक्षितव्यम्
काचित्सपत्नी तव वासुदेवं; प्रत्यादिशेत्तेन भवेद्विरागः
३.२२३.१०प्रियांश्च रक्तांश्च हितांश्च भर्तु;स्तान्भोजयेथा विविधैरुपायैः
द्वेष्यैरपक्षैरहितैश्च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश्च
३.२२३.११मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम्
प्रद्युम्नसाम्बावपि ते कुमारौ; नोपासितव्यौ रहिते कदाचित्
३.२२३.१२महाकुलीनाभिरपापिकाभिः; स्त्रीभिः सतीभिस्तव सख्यमस्तु
चण्डाश्च शौण्डाश्च महाशनाश्च; चौराश्च दुष्टाश्चपलाश्च वर्ज्याः
३.२२३.१३एतद्यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च
महार्हमाल्याभरणाङ्गरागा; भर्तारमाराधय पुण्यगन्धा