३.२२४.१वैशंपायन उवाच
३.२२४.२मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः
कथाभिरनुकूलाभिः सहासित्वा जनार्दनः
३.२२४.३ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः
आरुरुक्षू रथं सत्यामाह्वयामास केशवः
३.२२४.४सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम्
उवाच वचनं हृद्यं यथाभावसमाहितम्
३.२२४.५कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः
भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम्
३.२२४.६न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे
३.२२४.७अवश्यं च त्वया भूमिरियं निहतकण्टका
भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया
३.२२४.८धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च
युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे
३.२२४.९यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः
ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः
३.२२४.१०तव दुःखोपपन्नाया यैराचरितमप्रियम्
विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम्
३.२२४.११पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः
श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः
३.२२४.१२सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम्
३.२२४.१३त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता
प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा
३.२२४.१४भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः
३.२२४.१५भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः
तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि
३.२२४.१६एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम्
गमनाय मनश्चक्रे वासुदेवरथं प्रति
३.२२४.१७तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्
आरुरोह रथं शौरेः सत्यभामा च भामिनी
३.२२४.१८स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः