३.२३२.१युधिष्ठिर उवाच
३.२३२.२अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः
कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम्
३.२३२.३भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति
३.२३२.४यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्
न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम्
३.२३२.५जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान्
स एष परिभूयास्मानकार्षीदिदमप्रियम्
३.२३२.६दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम्
३.२३२.७शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम्
३.२३२.८अर्जुनश्च यमौ चैव त्वं च भीमापराजितः
मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम्
३.२३२.९एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः
इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः
३.२३२.१०एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः
३.२३२.११य एव कश्चिद्राजन्यः शरणार्थमिहागतम्
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर
३.२३२.१२क इहान्यो भवेत्त्राणमभिधावेति चोदितः
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्
३.२३२.१३वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव
शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम्
३.२३२.१४किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति
३.२३२.१५स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर
विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा
३.२३२.१६साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन
३.२३२.१७न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्
३.२३२.१८अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान्
सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः
३.२३२.१९एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर
वैताने कर्मणि तते वर्तमाने च भारत
३.२३२.२०वैशंपायन उवाच
३.२३२.२१अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम्
३.२३२.२२अर्जुन उवाच
३.२३२.२३यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम्
३.२३२.२४वैशंपायन उवाच
३.२३२.२५अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः