३. वनपर्व
३.२३४.१वैशंपायन उवाच

३.२३४.२ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन्

३.२३४.३चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत्

३.२३४.४यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे

३.२३४.५तान्समापततो राजन्गन्धर्वाञ्शतशो रणे
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः

३.२३४.६अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्

३.२३४.७अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा
लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे

३.२३४.८सहस्राणां सहस्रं स प्राहिणोद्यमसादनम्
आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः

३.२३४.९तथा भीमो महेष्वासः संयुगे बलिनां वरः
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः

३.२३४.१०माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान्

३.२३४.११ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः

३.२३४.१२तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः
महता शरजालेन समन्तात्पर्यवारयत्

३.२३४.१३ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः

३.२३४.१४गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित्
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः

३.२३४.१५शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा
अश्मवृष्टिरिवाभाति परेषामभवद्भयम्

३.२३४.१६ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन्

३.२३४.१७तेषां तु शरवर्षाणि सव्यसाची परंतपः
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत

३.२३४.१८स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः

३.२३४.१९ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः
दैतेया इव शक्रेण विषादमगमन्परम्

३.२३४.२०ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना

३.२३४.२१गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत्

३.२३४.२२तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा

३.२३४.२३स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना
संवृत्य विद्ययात्मानं योधयामास पाण्डवम्
अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः

३.२३४.२४गन्धर्वराजो बलवान्माययान्तर्हितस्तदा
अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः

३.२३४.२५अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा
शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः

३.२३४.२६स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना
अथास्य दर्शयामास तदात्मानं प्रियः सखा

३.२३४.२७चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम्
संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः

३.२३४.२८दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम्
संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च

३.२३४.२९चित्रसेनश्च भीमश्च सव्यसाची यमावपि
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे